Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 311
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने wwwwwwwwwwwmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm वाक्ये यथा "गाढालिंगणरहसुजयम्मि दइए लहुं समोसरइ । माणसिणीणं माणो पीलणभीउव्व हियआओं" ॥ ७५॥ अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि तत्र जृम्भत इति वस्तु व्यज्यते । अलङ्कारेणालङ्कारः पदे यथा-- "तुह वल्लहस्स गोसम्मि आसि अहरो मिलाण कमलदलं । इय नववहुआ सोऊण कुणइ वयणं महीसमुहं" ॥ ७६ ॥ । ] . उपमाया वस्तुव्यञ्जकत्वं च पूर्वप्रदर्शिते “शिखरि क्व नु नाम" इति पद्ये 'अधरपाटलं' इति समासोपमया अभिलाषात्मक वस्तु व्यज्यत इति । एवमन्येऽप्यलकारा वस्तुव्यञ्जकत्वे उदाहार्याः ॥ पदगतालङ्कारैर्वस्तुध्वनिमुदाहृत्य वाक्यगतालङ्कारेण वस्तुध्वनिमुदाहरतिगाढालिंगणेति। "गाढालिङ्गनरभसोद्यते दयिते लघु समपसरति । मनस्विनीनां मानः पीडनभीरुरिव हृदयात् ॥” इति संस्कृतम्। मानवती प्रति मानमङ्कायापरमानवतीवृत्तान्तं बोधयन्त्याः कस्याश्चिदुक्तिरियम्-दयिते प्रिये, गाढालिङ्गनाय, रभसेन-वेगेन हर्षेण वा, उद्यते सति, उद्युक्त एव न त्वाचरितवति, मनस्विनीनां वशीकृतमानसानामपि, मानः "स्त्रीणामीाकृतः कोपो मानोऽन्यासङ्गिनि प्रिये" इत्युक्तलक्षणः कोपः, पीडनाद् भीरुरिव, हृदयात् , लघु शीघ्रं गुप्तं वा, समपसरति निःशेषतो गच्छतीत्यर्थः । एवं च तादृश्याः स्वाधीनचित्ताया अपि मानो यदि तावन्मात्रेणैव गतस्तर्हि अतादृश्यास्तव गमिष्यतीति किं वक्तव्यमित्यवश्यंभाविनि मानमङ्गे किमित्यात्मानं वञ्चयसीति भावः ॥ अत्र केन किं व्यज्यत इत्याह-अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि इति-पीडनभीरुरिवेति भयोस्प्रेक्षारूपेणालङ्कारेणात्यन्तिकमाननिवृत्तौ सत्यां प्रत्यालिङ्गनसहासवचनादि तत्र जृम्भते-बहु भवतीति वस्तु द्योत्यते इत्यर्थः ॥ अलङ्कारेण वस्तुध्वनि पदवाक्यगतमुदाहृत्यालङ्कारेणालङ्कारध्वनिमुदाहरति, तत्र प्रथमं पदगतालङ्कारेणालङ्कारध्वनिर्यथा-तुह वल्लहस्सेति । “तव वल्लभस्य प्रभाते आसीदधरो म्लानकमलदलम् । इति नववधूः श्रुत्वा करोति वदनं महीसम्मुखम् ॥” इति संस्कृतम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340