Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 310
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० २४ । २८१ अपणामियं पि गहियं कुसुमसरेण महुमासलच्छीए मुह" ॥ ७४ ॥ [हरिविजये] अत्रापणामियं-असमर्पितमपीति विरोधालङ्कारेण वाच्येन मधुमासप्रौढिमनि भाविनि किं भविष्यतीत्येवंभूतं वस्तु ध्वन्यते । संस्कृतम् । कुसुमशरेण कामेन, चूतस्याङ्करः-मार्येव, अवतंसः-कर्णपूरो यस्मिन् तादृशम् , महाघेण-महनीयेन, क्षणस्य-वसन्तोत्सवस्य, प्रसरेण-समारोहेण, मनोहरः, सुरायाः, मनोहरसुरस्य-कामदेवस्य वा, आमोदः-सुगन्धिरानन्दो वा यत्र तादृक् , मधुमासलक्ष्म्या वसन्तश्रियाः मुखम् आननमारम्भश्च, तया चुम्बितुम् , असमर्पितमपि अदत्तमपि, बलाद् गृहीतमित्यर्थः, वसन्तारम्भो नितरां कामोद्दीपक इति भावः । अत्र केन किं व्यज्यत इत्याह-असमर्पितमपीति विरोधालङ्कारेणेति-असमर्पितस्य ग्रहण हि विरुद्धम् , तथा चापिशब्देन तदभिधानाद् विरोधालङ्कारः, तेन च मधुमासस्य प्रारम्भ एव यद्येवमुल्लुण्ठनं तर्हि अस्य भाविनि प्रौढिमनि किं भावीति न वक्तुं शक्यत इति वस्तु व्यज्यते । अत्र नवोढाललनाया मदिरामोदि वकं बलात् कान्तेनापि गृह्यत इति प्रत्यायनात् समासोक्तिरलङ्कारोऽपीति ध्वन्यालोकटीकायामुक्तम् । अत्र प्रसरमहग्धेति महग्ध[महार्घ ]शब्दस्य परनिपातः प्राकृतनियमानुसारीति ज्ञेयम् ॥ वाच्यस्य रूपकालङ्कारस्य वस्तुव्यञ्जकत्वं यथा-"चमढियमाणसकञ्चणपंकयनिम्महियपरिमला जस्स । अक्खुडियदाणपसरा बहुप्फलिह चिय गयंदा ॥" "मर्दितमानसकाञ्चनपङ्कजनिर्मथितपरिमला यस्य । अखण्डितदानप्रसरा बाहुपरिघा एव गजेन्द्राः ॥” इति संस्कृतम् । मर्दितानां-पेषितानां म्लापितानां वा, मानसस्य-तदाख्यसरसः, काञ्चनपङ्कजानां-स्वर्णकमलानां, निर्मथितः-विजम्भितः, परिमल:-विमर्दोत्थातिमनोहरगन्धो येषु तादृशाः, पक्षे मर्दितानिनिराशीकृतानि विहतानि वा शत्रूणां, मानसानि-हृदयान्येव काञ्चनपङ्कजानि, तैर्निर्मथित:-प्ररूढः परिमलप्रतापप्रकर्षों येषां तादृशाः, तथा न खण्डिताःविच्छिन्नाः, दानस्य-मदजलस्य, पक्षे वितरणस्य, प्रसरः-प्रवाहः, पक्षे प्रवृत्तिर्येषु ते, यस्य-राज्ञः, बाहवो दृढत्वात् परिघा इव-लोहलगुडा इव बाहुपरिघाः, त एवं गजेन्द्राः, भान्ति, शोभन्ते इत्यर्थः । अत्र बाह्वोः परिघरूपणात्मना रूपकालङ्कारेण भुजद्वयातिरिक्तं गजाश्वादिसामग्रीरूपं तस्यानुपादेयमिति वस्तु व्यज्यते । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340