Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २४ ।
२७९
पूर्वमनङ्गीकृतानुनयामनुतप्तां प्रणयिविरहोत्कण्ठितां कृतप्रसाधनादिविधेयतया वल्लभागमनप्रतीक्षापरत्वेन वासकसजां काञ्चन नायिका पूर्णचन्द्रोदयावसरे दूतीमुखेनानीतः प्रियतमः प्राह-हे नताङ्गि-मध्यक्षेण्यादवनतोत्तरकाये ! गौरामयाः कुचावेव कुम्भौ तयोर्भूरि-बहुलं सुभगे-सौभाग्यशालिनि सुन्दरे, आभोगे परिसररूपे, सुधाधामनि चन्द्रमसि, यत् कालागुरुणा-कृष्णागरुलेपेन, निर्मिता, पत्रभङ्गस्य-पत्राकारप्रसाधनस्य, रचनायाः, मावास:-स्थितिः, तया, एकः समानः सारो यस्य तद्वदाचरति, एषः, विच्छेदस्य-विरहस्य, अनलेनवह्निना, दीपितं-ज्वलितं यत् , उत्कायाः-उत्कण्ठिताया वनितायाः, चेतः-हृदयं, तत्र योऽधिवासः-निवासः, तेनोद्भवति-जायते, जातो वा यः, तादृशं सन्तापं, विततैः-प्रसारितैः अङ्गः, विनिनीषुः, विनेतुमिच्छु:, स्मरः कामदेव एवेत्यर्थः । अन्न चन्द्रमण्डलमध्यवर्तिनः कृष्णवर्णचिह्नस्य वियोगाग्निपरिचितवनिताहृदयनिवासजातदाहमलीमसच्छविमन्मथाकारतयापसवो ध्वन्यते ॥ अत्रान्येऽप्यलङ्कारा ध्वन्यन्ते-यथा ससन्देहः, यतश्चन्द्रवर्तिनः कलङ्कस्य नामापि न गृहीतम् , अपि तु गौरीस्तनाभोगस्थानीये चन्द्रमसि कालागरुपत्रभङ्गविच्छित्यास्पदत्वेन यत् सारतामुत्कृष्टतामाचरति तन्न जानीमः किमेतद्वास्त्विति संशयोक्तिरूपः ससन्देहालङ्कारो ध्वन्यते ॥ निदर्शनालङ्कारश्च यथा-'त्वदीयकुचकलशन्यस्तपत्रमङ्गरचना कुवलयदलश्यामलामन्मथोद्दीपनकारिणी तथैव चन्द्रवर्तिनीयं कान्तिरपि करोति' इतीष्टार्थसिध्यै दृष्टान्तरूपो निदर्शनालङ्कारो ध्वन्यते । तथा "सहार्थबलाद्धमस्यान्वयः" इति लक्षिता सहोक्तिरपि ध्वन्यते, यथा-'त्वदीयकुचकलशशोभा मृमाङ्कशोभा च सह मदनमुद्दीपयेते' इति । एवं त्वत्कुचसदृशश्चन्द्रश्चन्द्रसमस्त्वस्कुचाभोगः' इति रूपेणोपमालङ्कारोऽपि ध्वन्यते । एवं विचारे कृते सति कामधेनुरूपायामस्यां महाकवेर्वाचि शक्यन्तेऽन्येऽप्यलङ्कारा उत्प्रेक्षयितुम् । उक्तं च महतां प्रयासस्याधिककार्यकारिवामित्थं-"हेलापि कस्यचिदचिन्त्यफलप्रसूत्यै, कस्यापि नालमणवेऽपि फलाय यत्नः । दिग्दन्तिरोमचलनं धरणी धुनोति, खात् सम्पतन्नपि लतां चलयेन भृङ्गः ॥" [ ] इति । कस्यचित् महासत्त्वस्य हेलापि-अनायासचेष्टाऽपि, अचिन्त्यस्य-अल्पसस्वैश्चिन्तयितुमप्यशक्यस्य, फलस्य, प्रसूत्यै-सम्पादनाय भवति, तथा कस्याप्यल्पसत्त्वस्य यत्नः, अणवे-स्तोकायापि, फलाय प्रयोजनाय, न भवति । तत्रार्थान्तरन्यासेन समर्थनमाह-दिग्दतिनः-दिग्गजानां, रोम्णः-एकस्यापि केशस्य, चलनं-स्वाभाविकं स्पन्दनमपि
For Private And Personal Use Only

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340