Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 306
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू०२४। २७७ अद्य सदृशत्वं प्राप्य अङ्गे एव न माति ॥” इति संस्कृतम् । अयि मनस्विनि ! एष दृश्यमानः, पूर्णिमाचन्द्रः राकासुधाकरः, ईय॑या-मद्विषया, सपलीविषया वाऽक्षमया, कलुषस्य-शोणिमाविलस्यापि [का कथा प्रसन्नस्य ] तव मुखस्य, सहशत्वं साम्यम् , अद्य इदानीं प्राप्य लब्ध्वा, नन निश्चितम् , अङ्गे स्वावयवे, न मात्येव, अपि तु दश दिशः प्रकाशैः पूरयतीवेत्यर्थः । त्वन्मुखं तु ईर्षया क्षणलब्धप्रसरया चन्द्रोभवति, वस्तुतस्ततोऽधिकमिति हृदयम्, इति मनोरथानामप्यपथमिदमित्यपिशब्दार्थः । अन्योऽप्यलभ्यं लब्ध्वाऽत्यर्थ मुदितोऽतोऽङ्गे न मातीति प्रसिद्धिः । अत्र पूर्णचन्द्रेण दिशां पूरणं स्वभावसिद्धमेवमुत्प्रेक्ष्यते, अत्र दश दिशः पूरयतीवेत्युत्प्रेक्षा चेवादिशब्दाभावात् प्राधान्येन व्यज्यते ॥ नन्वत्रोत्प्रेक्षावाचको वितर्कोपस्थापको ननुशब्द एवास्तीति सा कथं व्यङ्ग्या स्यादिति चेत् ? उदाहरणान्तरं गृहाण, तथाहि "त्रासाकुलः परिपतन् परितो निकेतान् , पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि । तस्थौ तथापि न मृगः क्वचिदङ्गनानामाकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥ [शि० व० स० ५० श्लोक-२६] श्रीकृष्णस्य ससैन्यस्य हस्तिनापुरयात्रायां मार्गे सेनासनिवेशसमये रेवतकपर्वते वर्णनमिदम्-त्रासाकुलः बहुजनसम्मर्ददर्शनजन्यभयेन व्याकुलः, अत एव निकेतान् सेनासन्निवेशपटगृहान् , परितः सर्वतः, परिपतन् धावन् , मृगः हरिणः, यद्यपि कैश्चिदपि धन्विभिः धानुष्कैः, पुभिः पुरुषैः, सैनिकैः न अन्वबन्धि नानुबद्धः, नान्वसारि वा, तथापि अङ्गनानाम् अवरोधजनानाम् । आकर्णपूर्णाः-श्रवणपर्यन्तं व्याप्ता आकृष्टो वा, नयनान्येव, इषवः-बाणास्तः, हता-क्षिप्ता, ईक्षणयोः-नेत्रयोः, श्रीः-शोभा सर्वस्वभूता यस्य तथाभूतः सन् , क्वचित कुत्रापि, न तस्थावित्यर्थः । अत्र स्वाभाविकादेव त्रास-चापलयोगादसो न वचिदपि तस्थौ, तथापि तत्रोत्प्रेक्षा ध्वन्यते । अत्र चोत्प्रेक्षावाचकं किमपि नास्तीति ध्वनिरेव स्वीकार्या । जनालोकनोत्थभयहेतुकस्य मृगानवस्थानस्याङ्गनापाङ्गेषु हतिहेतुकत्वोत्प्रेक्षणाद्धेतूत्प्रेक्षा, सा च व्यञ्जकाप्रयोगात् प्रतीयमाना हेतोश्च विशेषणगत्योक्तत्वात् काव्यलिङ्गमिति संकरः। नन्वेतदप्यसम्बन्धमस्तु, न, शब्दार्थव्यवहारे साम्प्रदायिकप्रसिद्ध रेव बलवत्त्वात् , तत्रास्योत्प्रेक्षाध्वनित्वेन प्रसिद्धत्वात् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340