Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 304
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० २४। २७५ वाक्ये यथा-- "पुत्रक्षयेन्धनघनप्रविजृम्भमाण स्नेहोत्थशोकविषमज्वलनाभितप्तः । प्रालेयशीतलममस्त स बाह्यवह्नि मह्नाय देहमथ संविदधे सरित्सात्” ॥ ७३ ॥ [ ] अत्र वसिष्ठः पुत्रक्षयोपतप्तोऽग्निं प्रविष्टोऽपि न तेन दग्ध इत्ययं रेवायमिति स्वमतं स्थापितम् , व्यतिरेकस्य च वाच्यतया न ध्वनित्वम्। न चालङ्कारेणालङ्कारध्वनिरेव कुतो न स्वीक्रियते इति वाच्यम् , प्रियास्तनतटादतिशयेन गजकुम्भस्य मनोरमत्वे तेषां धीरत्वमेव कारणमिति व्यतिरेकापेक्षया तदर्थस्यैवोपमालङ्कारव्यञ्जकत्वौचित्यात् । तत्र ध्वन्यमानोपमा प्रियाकुचकुड्मलाभ्यां सकलजनत्रासकरेष्वपि शात्रवेषु मसरोद्यतेषु गजकुम्भस्थलेष्विष्टा, तद्वशेन रतिमयानामिव प्रियाकुचेषु वीराणां तत्र बहुमान इति सैव वीरता [धीरता]ऽतिशयचमत्कारं विधत्त इत्युपमायाः प्राधान्यमिति ध्वन्यालोकटीकायाम् ॥ वस्तुनोऽलङ्कारव्यञ्जकत्वं वाक्ये यथा-पुत्रक्षयेन्धनेति-पुत्राणां क्षयः प्रणाश एव, इन्धनं-काष्ठं, तेन धनम्-अत्यन्तं, प्रविज़म्भमाणः-वर्धमानो यः, स्नेहोत्थः- पुत्रगतप्रेमप्ररूढः, शोकः-प्रियनाशविषयको मन्युः, स एव विषमःकठिनः, ज्वलन:-अग्निः, तेन अभितप्तः-पीडितः, स वशिष्ठः, बाह्यवह्नि लौकिकसाधनसम्भूतवह्नि, प्रालेयशीतलं हिमवच्छीतम् , अमस्त मन्यते स्म, अथ अह्नाय झटिति, देहं कायं, सरित्सात् नद्यधीनं, विदधे चक्रे । वसिष्ठस्य पुत्रशतं नष्टं तच्छोकशान्तयेऽग्निप्रवेशमनादृत्य सरित्प्रवेशमेव तत्तापशान्तये स्वीचकारेत्यर्थः, अग्निप्रवेशानादरकारणं च तस्यान्तस्तापापेक्षया पालेयवच्छीत. त्वम् । अत्र वाक्यार्थरूपेण वस्तुना व्यतिरेकालङ्कारो व्यङ्ग्यः, तदाह-अत्र वसिष्ठः पुत्रक्षयोपतप्त इति । अग्निं प्रविष्टोऽपीति बाह्यमग्निं प्रालेयशीतलममस्तेति वाक्येन तस्याग्निप्रवेशोऽपि विज्ञायते, विना प्रवेशं तस्य प्रालेयशीतलत्वज्ञानाभावात् । व्यतिरेकालङ्कारस्य स्वरूपमाह-शोकस्य बाह्यवढेराधिक्यमिति । विवेके वस्तुनोऽलङ्कारध्वनिप्रदर्शनाय पदविषयमुपमारूपमलङ्कारं वृत्युक्तं सम ऑर्थान्तरन्यासध्वनिः पदगत इत्थमुदाहृतः-"हिआयडियमन्नु खुअ अणरुटमुहं पि में पसायंत । अवरद्धस्स वि ण हु दे बहुजाणय रूसिउं सकं ॥ [ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340