Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 302
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधनिवृतौ अध्या० १, सू० २४ । २७३ "तापी नेयं नियतमथवा तानि नैतानि नूनं तीराण्यस्याः सविधविचलद्वीचिवाचालितानि । अन्यो वाऽहं किमथ न हि तद्वारि वेल्लबलाकं यत्तत्पल्लीपतिदुहितरि स्नातुमभ्यागतायाम्” ॥ ७१॥ युज्यते चैतत् , अन्यथा 'बिम्बाधरे' इति पदस्य न किमपि प्रकृतोपयोगित्वं सम्भवति, मोहिनीरूपासक्तं चेतः स्वप्रियाऽधरासक्तं कृतमिति न सम्भवत्सम्बन्धम् , तथा च वस्तुना वस्तुध्वनेरुदाहरणान्तरमेव देयमिति प्रतीमः । तच्च यथा-"अलससिरोमणि धुत्तानामग्रिमो [धुत्ताणमग्गिमो] पुत्ति ! धन[धण]समिद्धिमओ । इअ भणितेन नतांगी [ भणिएण नयंगी] प्रफुल्लविलोअना[णा] जाआ ॥" [ ] "अलसशिरोमणिधूर्तानामग्रिमः पुत्रि! धनसमृद्धिमयः। इति भणितेन नताशी प्रफुल्लविलोचना जाता" ॥ इति संस्कृतम् । पतिवरां गणिकां प्रति धात्र्याः प्ररोचनायोक्तिः पूर्वार्धम् , उत्तराधं तु कवेर्वाक्यम् । हे पुत्रि ! अयं वरोऽलसाना-निरुद्योगानां शिरोमणिः-श्रेष्ठो, धूर्तानां चाग्रिमःप्रथमगणनीयः, प्रचुरधनसमृद्धिश्च । इति भणिते-भाषिते, लजया नताङ्गी काचित् प्रफुल्ले हर्षविकसिते विलोचने नेत्रे यस्यास्तादृशी जाता, इत्यर्थः । अत्रालसत्वेनान्यत्र गन्तुमनिच्छुः, धूर्तत्वेन रतेष्वनाहतगुणः' संभोगेष्वतृप्तश्च, नताङ्गीत्वेन स्वस्या मानिनीत्वं नमस्कारद्वारा बोध्यते, धनसमृद्धिमत्तया कृपण इति निर्धाय तेनान्यासामनाकर्षणीय इति ममैवोपभोग्य इति वस्तु व्यज्यते, तद्विषयकं च कुमार्या ज्ञातं तदलसशिरोमणित्वादिश्रवणाविशिष्टेन प्रफुल्लनयन वेन वस्तुना स्वहेतुहर्षव्यञ्जनद्वारेण तत्कारणीभूतं सामाजिकेषु व्यज्यते । अत्र प्रफुल्ललोचनेति पदार्थेनैव, ममैवोपभोग्य इति व्यङ्ग्यमिति पदगतत्वमपि ॥ वाक्यगतं वस्तुना वस्तुव्यञ्जनमाह-तापी नेयमिति । पल्लीपतेघौषरक्षकस्य दुहितरि स्नातुमभ्यागतायां सत्यां [या तापी सूर्यप्रसूतैतन्नानी नदी आसीत् सा] इयं तापी न इति नियतम् , अथवाऽस्तु सैवेयं, किन्तु अस्याः, तानि तत्कृतसौभाग्यभाञ्जि, एतानि तीराणि कूलभूमयो नूनं नैव, कीदृशानि तीराणि ? सविधे-समीपे, विचलद्भिः-पौनःपुन्येनोच्छल द्भिः, वीचिभिः, वाचालितानिशब्दायितानि, अथवा तान्यपि चेत् तान्येव, तर्हि अहम् [ एव ] वा स्तन्यः, का० १८ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340