Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२ wwwwwwwwwwwwwwwwwwww
उसासन
सालङ्कारचूडामणी काव्यानुशासने अत्र कुसुमबाणेनेति पदं कामदेवस्य मृदूपायसौन्दर्य प्रकाशयति । वाक्ये यथा
"तत् तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् । बिम्बाधरे प्रियाणां निवेशितुं कुसुमबाणेन ॥” इति संस्कृतम् । आनन्दवर्धनाचार्यकृते विषमवाणलीलाख्ये ग्रन्थे-असुराणां पराक्रमे विजृम्भमाणे सति कामदेवस्य तद्विषयेऽपि विक्रमकौशलं वर्णितमेतेन पद्येन । श्रीसहोदररत्नस्य-कौस्तुभमणेः, आहरणे-आदाने, एकरसम्० एकतानं तत्परमिति यावत् , तेषाम्० असुराणां पातालवासिना, यैः पुनरिन्द्रविमर्दनादि किं किं न कृतमिति भावः, हृदयं मनो यत् आसीत् तत् अथवा यत् तेभ्यस्तेभ्योऽतिदुष्करेभ्योऽप्यकम्पनीयव्यवसायं तदिति, कुसुमबाणेन कामेन, प्रियाणां स्वदयितानां, बिम्बफलतुल्येऽधरे, निवेशितम् आसञ्जितं तथा च तदवलोकन-तत्परिचुम्बन-तद्दशनमात्रकृतकृत्यताभिमानयोगि कृतमित्यर्थः । भत्र केन किं व्यङ्ग्यमिति दर्शयति-अत्र कुसुमबाणेनेति पदमिति-महापराक्रमैरपि देवैः स्वनिश्चयानिवर्तयितुमशक्यानामसुराणामपि हृदयमन्याभिमुखं विदधतः कामदेवस्य मृदूपायसौन्दर्य वस्तु 'कुसुमबाणेन' इति पदेन व्यङ्ग्यमिति भावः । ध्वन्यालोके चात्रोपमालङ्कारध्वनिरित्युक्तम् , तथाहि-द्वितीयोझ्योते 'उपमाध्वनिर्यथा' इति प्रकृत्य 'धीराणां रमइ' इत्यादि परकीयपद्यमुदाहृत्य, यथा वा ममैव विषमबाणलीलायामसुरपराक्रमे कामदेवस्येति प्रकृत्येदं पद्यमुक्तम् , व्याख्यातं च टीकाकृद्भिः-'अत्र वाच्यातिशयोक्त्या कौस्तुभमणिप्रियाबिम्बाधरयोरुपमा ध्वन्यते, वस्तुतः कौस्तुभमणितुल्यो बिम्बाधर इति पार्यान्तिकप्रतीतेः, अत एव न रूपकध्वनिस्तत्रोपमानस्यारोप्यमाणत्वेनावास्तविकत्वादिति । स्वमते चोक्तरूपवस्तुध्वनेरेव चमत्कारकारितयाऽलङ्कारातिशायित्वमिति यत्कृतं चारुत्वं तदेव व्यङ्गयमित्याश्रित्य वस्तुध्वनिरुक्तः । किञ्च यदि 'सिरिसहोमररयणाहरणम्मि' इति पदस्य 'श्रीसहोदररलाभरणे' इति च्छाया समाश्रीयते तदा कौस्तुभाभरणे-हरौ मोहिनीरूपधारिणि, एकरसम्एकतानीभूतमसुराणां हृदयं स्वस्वप्रियाबिम्बाधरे निवेशित कामदेवेनेति तदर्थः प्रतीयते, तथा च पूर्वव्याख्यानतो वैपरीत्येन नोपमालङ्कारसम्भव इति मृदूपायसौन्दर्यमेव व्यङ्ग्यमिति सुस्थमेव । वस्तुतस्तु यस्य कवेरिदं पद्यं तेन स्वत एवालङ्कारव्यञ्जकत्वेन व्याख्यातमिति तदेव समाश्रयणीयमिति प्रतीमः ।
For Private And Personal Use Only

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340