SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७२ wwwwwwwwwwwwwwwwwwww उसासन सालङ्कारचूडामणी काव्यानुशासने अत्र कुसुमबाणेनेति पदं कामदेवस्य मृदूपायसौन्दर्य प्रकाशयति । वाक्ये यथा "तत् तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् । बिम्बाधरे प्रियाणां निवेशितुं कुसुमबाणेन ॥” इति संस्कृतम् । आनन्दवर्धनाचार्यकृते विषमवाणलीलाख्ये ग्रन्थे-असुराणां पराक्रमे विजृम्भमाणे सति कामदेवस्य तद्विषयेऽपि विक्रमकौशलं वर्णितमेतेन पद्येन । श्रीसहोदररत्नस्य-कौस्तुभमणेः, आहरणे-आदाने, एकरसम्० एकतानं तत्परमिति यावत् , तेषाम्० असुराणां पातालवासिना, यैः पुनरिन्द्रविमर्दनादि किं किं न कृतमिति भावः, हृदयं मनो यत् आसीत् तत् अथवा यत् तेभ्यस्तेभ्योऽतिदुष्करेभ्योऽप्यकम्पनीयव्यवसायं तदिति, कुसुमबाणेन कामेन, प्रियाणां स्वदयितानां, बिम्बफलतुल्येऽधरे, निवेशितम् आसञ्जितं तथा च तदवलोकन-तत्परिचुम्बन-तद्दशनमात्रकृतकृत्यताभिमानयोगि कृतमित्यर्थः । भत्र केन किं व्यङ्ग्यमिति दर्शयति-अत्र कुसुमबाणेनेति पदमिति-महापराक्रमैरपि देवैः स्वनिश्चयानिवर्तयितुमशक्यानामसुराणामपि हृदयमन्याभिमुखं विदधतः कामदेवस्य मृदूपायसौन्दर्य वस्तु 'कुसुमबाणेन' इति पदेन व्यङ्ग्यमिति भावः । ध्वन्यालोके चात्रोपमालङ्कारध्वनिरित्युक्तम् , तथाहि-द्वितीयोझ्योते 'उपमाध्वनिर्यथा' इति प्रकृत्य 'धीराणां रमइ' इत्यादि परकीयपद्यमुदाहृत्य, यथा वा ममैव विषमबाणलीलायामसुरपराक्रमे कामदेवस्येति प्रकृत्येदं पद्यमुक्तम् , व्याख्यातं च टीकाकृद्भिः-'अत्र वाच्यातिशयोक्त्या कौस्तुभमणिप्रियाबिम्बाधरयोरुपमा ध्वन्यते, वस्तुतः कौस्तुभमणितुल्यो बिम्बाधर इति पार्यान्तिकप्रतीतेः, अत एव न रूपकध्वनिस्तत्रोपमानस्यारोप्यमाणत्वेनावास्तविकत्वादिति । स्वमते चोक्तरूपवस्तुध्वनेरेव चमत्कारकारितयाऽलङ्कारातिशायित्वमिति यत्कृतं चारुत्वं तदेव व्यङ्गयमित्याश्रित्य वस्तुध्वनिरुक्तः । किञ्च यदि 'सिरिसहोमररयणाहरणम्मि' इति पदस्य 'श्रीसहोदररलाभरणे' इति च्छाया समाश्रीयते तदा कौस्तुभाभरणे-हरौ मोहिनीरूपधारिणि, एकरसम्एकतानीभूतमसुराणां हृदयं स्वस्वप्रियाबिम्बाधरे निवेशित कामदेवेनेति तदर्थः प्रतीयते, तथा च पूर्वव्याख्यानतो वैपरीत्येन नोपमालङ्कारसम्भव इति मृदूपायसौन्दर्यमेव व्यङ्ग्यमिति सुस्थमेव । वस्तुतस्तु यस्य कवेरिदं पद्यं तेन स्वत एवालङ्कारव्यञ्जकत्वेन व्याख्यातमिति तदेव समाश्रयणीयमिति प्रतीमः । For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy