________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधनिवृतौ अध्या० १, सू० २४ ।
२७३
"तापी नेयं नियतमथवा तानि नैतानि नूनं तीराण्यस्याः सविधविचलद्वीचिवाचालितानि । अन्यो वाऽहं किमथ न हि तद्वारि वेल्लबलाकं यत्तत्पल्लीपतिदुहितरि स्नातुमभ्यागतायाम्” ॥ ७१॥
युज्यते चैतत् , अन्यथा 'बिम्बाधरे' इति पदस्य न किमपि प्रकृतोपयोगित्वं सम्भवति, मोहिनीरूपासक्तं चेतः स्वप्रियाऽधरासक्तं कृतमिति न सम्भवत्सम्बन्धम् , तथा च वस्तुना वस्तुध्वनेरुदाहरणान्तरमेव देयमिति प्रतीमः । तच्च यथा-"अलससिरोमणि धुत्तानामग्रिमो [धुत्ताणमग्गिमो] पुत्ति ! धन[धण]समिद्धिमओ । इअ भणितेन नतांगी [ भणिएण नयंगी] प्रफुल्लविलोअना[णा] जाआ ॥" [ ] "अलसशिरोमणिधूर्तानामग्रिमः पुत्रि! धनसमृद्धिमयः। इति भणितेन नताशी प्रफुल्लविलोचना जाता" ॥ इति संस्कृतम् । पतिवरां गणिकां प्रति धात्र्याः प्ररोचनायोक्तिः पूर्वार्धम् , उत्तराधं तु कवेर्वाक्यम् । हे पुत्रि ! अयं वरोऽलसाना-निरुद्योगानां शिरोमणिः-श्रेष्ठो, धूर्तानां चाग्रिमःप्रथमगणनीयः, प्रचुरधनसमृद्धिश्च । इति भणिते-भाषिते, लजया नताङ्गी काचित् प्रफुल्ले हर्षविकसिते विलोचने नेत्रे यस्यास्तादृशी जाता, इत्यर्थः । अत्रालसत्वेनान्यत्र गन्तुमनिच्छुः, धूर्तत्वेन रतेष्वनाहतगुणः' संभोगेष्वतृप्तश्च, नताङ्गीत्वेन स्वस्या मानिनीत्वं नमस्कारद्वारा बोध्यते, धनसमृद्धिमत्तया कृपण इति निर्धाय तेनान्यासामनाकर्षणीय इति ममैवोपभोग्य इति वस्तु व्यज्यते, तद्विषयकं च कुमार्या ज्ञातं तदलसशिरोमणित्वादिश्रवणाविशिष्टेन प्रफुल्लनयन
वेन वस्तुना स्वहेतुहर्षव्यञ्जनद्वारेण तत्कारणीभूतं सामाजिकेषु व्यज्यते । अत्र प्रफुल्ललोचनेति पदार्थेनैव, ममैवोपभोग्य इति व्यङ्ग्यमिति पदगतत्वमपि ॥
वाक्यगतं वस्तुना वस्तुव्यञ्जनमाह-तापी नेयमिति । पल्लीपतेघौषरक्षकस्य दुहितरि स्नातुमभ्यागतायां सत्यां [या तापी सूर्यप्रसूतैतन्नानी नदी आसीत् सा] इयं तापी न इति नियतम् , अथवाऽस्तु सैवेयं, किन्तु अस्याः, तानि तत्कृतसौभाग्यभाञ्जि, एतानि तीराणि कूलभूमयो नूनं नैव, कीदृशानि तीराणि ? सविधे-समीपे, विचलद्भिः-पौनःपुन्येनोच्छल द्भिः, वीचिभिः, वाचालितानिशब्दायितानि, अथवा तान्यपि चेत् तान्येव, तर्हि अहम् [ एव ] वा स्तन्यः,
का० १८
For Private And Personal Use Only