SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७४ सालङ्कारचूडामणौ काव्यानुशासने अत्र वाक्यार्थेन वस्तुमात्ररूपेणाभिलषणीयजनकृतमेव भावानां हृद्यत्वं न स्वत इत्येतद्वस्तु व्यज्यते । वस्तुनोऽलङ्कारव्यञ्जकत्वं पदे यथा “धीराण रमइ घुसिणारुणम्मि न तहा पियाथणुच्छंगे। दिट्ठी रिउगयकुंभत्थलम्मि जह बहलासंदूरे" ॥ ७२ ॥ अत्र धीराणामिति पदार्थो वस्तुमात्ररूपः कुचयोः कुम्भस्थलस्य चोपमालङ्कारं ध्वनति । अथ अथवा, वेल्लन्त्यः-इतस्ततः संचरन्त्यो बलाकाः-बकपतयो यत्र तादृशं, तत् पूर्वोक्तसमयसत्त्वसौभाग्यशालि, वारि ताप्या जलं, किं न इति संदेह इति भावः । अयमाशयः-तस्याः स्नानसमये यथा ताप्याः स्वरूपमाकर्षकमासीत् , यथा वा तदीयतीराणि मनोहराण्यासन् , यथा चाहं तत्र निरतिशयानन्दमनुभवनासम् , यथा वा तदीयं वारि हृदयहारि प्रतीयते स्म, तथा साम्प्रतमप्रतीयमानत्वात् तन्नेति निश्चिनोमीति । अत्र किं व्यङ्गयमित्याह-वाच्यार्थन वस्तुमात्ररूपेणेति-वाच्याशयः पूर्वमुपदर्शितो वस्तुरूप एव, तेन चाभिलषणीयजमसम्पर्ककृतमेव सर्वेषां भावानां हृद्यत्वमिति वस्तु व्यज्यत इति भावः ॥ वस्तुनोऽलङ्कारव्यञ्जकत्वं पदे पदगतमुदाहरती-"धीराण रमइ." इति । "धीराणां रमते घुसणारुणे न तथा प्रियासनोत्सङ्गे । दृष्टी रिपुगजकुम्भस्थले यथा बहलसिन्दूरे ॥” इति संस्कृतम् । अत्र ध्वन्यालोकादौ धीराणामित्यस्य स्थाने वीराणामिति पाठः, स एव च सूपयुक्तः, वीराणां दृष्टिः, घुसणैः कुकुमैः, अरुणे-शोणे, प्रियायाः स्तनोत्सङ्गे-कुचतटे, न रमते-नानन्दमनुभवति, यथा बहलम्-अत्यर्थ सिन्दूरं यत्र तादृशे रिपोर्गजानां कुम्भस्थले रमते, वीराणां हि स्वभाव एवायं यत् शृङ्गाररसादधिकं वीररसपक्षपातित्वमिति शृङ्गारविभावाधिक वीरविभाव एव तेषां हृदयं चमत्करोतीति, “कुखमम् । जागुडं दीपनं घस्त्रं सौरभं घुसृणं च तत् ।" इति निकाण्डशेषः । अत्र "प्रियास्तनतटाद्रिपुगजकुम्भस्थलस्यातिशयमनोरमत्वरूपो व्यतिरेको वाच्यः, तेन च प्रियास्तनतटरिपुगजकुम्भस्थलयोरुपमा व्यज्यत इति ध्वन्यालोककारमतं न सम्मतमिति ध्वनयन स्वमतमाह-अत्र धीराणामिति पदार्थ इति । तथा च वस्तुनाऽलङ्कारध्वनि For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy