________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २४ । तत्र वस्तुनो वस्तुव्यञ्जकत्वं पदे यथा
"तं ताण सिरिसहोअररयणाहरणम्मि हिअयमिकरसं। बिबाहरे पिआणं निवेसियं कुसुमबाणेण" ॥ ७० ॥
[विषमबाणलीला]
wwwwwwww
विजृम्भिष्यत इति मन्मथोन्माथकस्यारम्भं क्रमेण गाढगाढीभविष्यन्त वस्तुरूपं व्यनक्तीति ॥
कविनिबद्धवक्तृप्रौढोक्तिमात्रसिद्धो यथा-"शिखरिणि क नु नाम कियच्चिर, किमभिधानमसावकरोत् तपः । तरुणि! येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥" [ ] हे सुमुखि !, असौ अचिन्त्यसौभाग्यमहिमा, शुकस्य शावकः-शिशुः, क नु नाम शिखरिणि कस्मिन्नज्ञातनामप्रभावे पर्वते, किमभिधानं किनामकमज्ञातपूर्व सर्वैरित्यर्थः, तपः, अकरोत् , येन तव अधरवत् पाटलं-श्वेतरक्त, बिम्बस्य-तुण्डिकेर्याः, फलं, दशति स्वादयतीत्यर्थः । इह शीघ्रसिद्धिदानि श्रीशैलादिप्रदेशदेवशरत्सहस्रसमयपञ्चाग्निप्रभृतितीव्रतपांसि विना यदा त्वदधरसदृशबिम्बफलस्याप्यास्वादो दुर्लभः, तर्हि का कथा त्वदघरस्येति व्यङ्ग्यं प्रति वाच्यार्थ उपसर्जनीभूत इति विवक्षितान्यपरवाच्यो ध्वनिः । दंशनमिह निरन्तरास्वादनमात्र, न तूदरम्भरिच्यापारः, तावतापि तस्य तपोऽति. रेकेण परिणता रसज्ञता, शावक इति शब्दमहिना तारुण्याधुचितकाललाभोऽपि तपःप्रभावादेव । “कामिनामधरास्वादः सुरतादतिरिच्यते" इत्युक्तेश्चाटुकृ. ताऽधरास्वादसमीहा च पुनः सूच्यते, तथा चानुरागिणः स्वाभिप्रायख्यापनवैदग्ध्यचाटुरचनात्मकभावोन्मीलनं व्यङ्ग्यम् । अत्र च कविनिबद्धस्य वक्तुः प्रौढोत्या सिद्धं वस्तु वस्तुव्यञ्जकमिति स्पष्टमेव ॥ ___ अत्र चोदाहरणत्रयेऽपि प्रौढोक्तिरेव वस्तुव्यञ्जकत्वेन स्वदते, शिखिपिच्छेत्यत्र स्वभावोऽपि कविप्रौढोक्तिहेतुक एवास्वाद लभते, विवेचितं चैतजात्यलंकारवर्णनप्रघट्टे । काव्यस्य कविरेव कर्ता, स एव चान्यापदेशेन वक्ताऽपि, वक्ता च कविनैव निबद्ध इति कवेरेव तथाविधा अर्था उल्लिखिता इति स्वतः संभवित्वम् , कविनिबद्धवक्तृप्रौढोक्तिनिष्पनशरीरत्वं चार्थस्य न वाच्यमिति सिद्धम् ।
अथ प्रकृतमनुसरामः, वस्तुनोऽलंकारस्य च प्रत्येकं वस्त्वलंकारव्याकस्वं सूत्रविषयः, तत्र वस्तुनो वस्तुव्यञ्जकत्वं पदगतमुदाहरति-"तं ताण." इति
For Private And Personal Use Only