________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७०
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने
पिच्छमेव कर्णपूर:- कर्णाभरणं यस्याः सा व्याधस्य जाया, मुक्ताफलैः - मौक्तिकैः, रचितानि - विन्यस्तानि, प्रसाधनानि - अलङ्करणानि याभिस्तासां सपत्नीनां मध्ये, गर्विणी साभिमाना, भ्रमति सञ्चरति, इतस्ततो गच्छन्ती स्वकीयं गर्व प्रकटयति । अत्र स्वतः सम्भवि गर्विव्याधवधूतादृशसपत्रीजनमध्यभ्रमणलक्षणं वस्तु, सपत्नीनां दिवसेषु पत्युः संभोगैकलग्नमनस्त्वाभावात् हस्तिनोऽपि हन्तुं क्षमतां द्वारीकृत्य, तासां संभोगव्यप्रताभावात् स्वकीय प्रसाधनविरचनमात्रपरत्वव्यञ्जनपूर्वकं तासां दौर्भाग्यातिशयं, स्वस्या वासरेषु तु साम्प्रतं तस्य निरन्तरस्मरसमरपरायणस्य क्षामतयाऽलब्धभूयोऽवकाशतया च सुहिंसान् गृहपर्यन्तचरान् वा मयूरानेव मारयितुं शक्तिरिति द्वारीकृत्य स्वसौभाग्यप्रकर्षं च वस्तु व्यञ्जयति, गर्वश्च बाल्याविवेकादिनाऽपि भवतीति नात्र स्वोक्तिसद्भावः शक्यः । अत्र चास्य श्लोकस्य ध्वनिर्यथा यथा विचार्यते तथा तथा व्याधवध्वाः सौभाग्यातिशयः प्रतीयते । इत्थं स्वतःसम्भविवस्तुव्यञ्जनात्मकोऽर्थशतयुद्धवोऽयं ध्वनिरिति ॥
अथ कविप्रौढोक्तिमात्रनिष्पन्नशरीरस्यार्थस्य व्यञ्जकत्वं यथा - "सज्जेइ सुरहिमासो न या पणामेइ [ न दाव अप्पेई ] जुअहजणलक्खसहे । अहिणवस हयारमुहे नवपल्लवपत्तले, भणंगस्स सरे ॥" [ ] अत्र 'न या पणामेह' इत्यस्य स्थाने कोष्ठस्थः पाठ एवं समुपलभ्यते बहुत्र, विवेक व्याख्यारीत्याऽपि स एव पाठः समुन्नीयत इति तदनुसारमेव संस्कृतमाश्रीयते, “सज्जयति सुरमिमासो न तावदर्पयति युवतिजनलक्ष्यसहान् । अभिनवसहकारमुखान् नवपल्लवपत्रलाननङ्गस्य शरान् ॥” इति संस्कृतम् । सुरभिमासः चैत्रमासः, युवतिजन एव लक्ष्यं शरव्यं तत्र सहान् - समर्थान्, 'मुहे' इति पाठे ध्वन्यालोकादिटते च मुखानिति च्छाया, तथा च युवतिजनैर्लक्ष्यं भयभीततया रमणीयतया वा दर्शनीयं, मुखम् - अग्रभागो येषां तानिति व्याख्या, नवपल्लवाः - किसलया एव, पत्राणि - पक्षास्तानि लान्ति- गृह्णन्तीति तान् तथा अभिनवः - नवमुकुलितः ' सहकार :- अतिसौरभात्रः, मुखम् - आदिर्येषां तान्, अनङ्गस्य कामस्य, शरान् बाणान्, सज्जयति निर्माति, प्रसाधयति वा, केवलं न तावत् अर्पयति कामाय ददातीत्यर्थः । इहाचेतनो वसन्तोऽनङ्गस्य सखा शरनिर्माताऽनङ्गो धन्वीत्यादिवस्तुरूपोऽर्थः कविप्रौढोक्तिमात्रेण केवलं सिद्धः 'सज्जयति केवलं न तावदर्पयति, इत्येवंविधया समर्पयितव्यवस्त्वर्पणकुशलयोक्त्या, यतः सहकारोद्धेदिनी वसन्तदशा उक्ता, अतोऽनर्पितेष्वपि यद्येवं मन्मथः प्रतपति तर्हि अर्पितेषु तेषु कियत्
,
For Private And Personal Use Only