SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० २४ । २६९ कविप्रौढोक्तिरेव च कविनिबद्धवक्तृप्रौढोक्तिरिति किं प्रपञ्चेन ? । मात्रेणैव साध्यसिद्धेरिति-योऽर्थः प्रौढोक्तिनिर्मितः स स्वतः सम्भवी वा भवतु, कविप्रौढोक्तिमानसिद्धो वा भवतु, तमिबद्धवक्तृप्रौढोक्तिसिद्धो वा भवतु, सर्वत्र प्रौढोक्तिनिर्मितत्वमस्त्येवेति सर्वसंग्राहकमेकमेव रूपमाश्रयणीयं लाघवादिति भावः । स्वतः सम्भविन्यपि प्रौढोक्तिनिर्मितत्वस्यावश्यकत्वमित्याह-प्राढोक्तिमन्तरेणेति-अचमत्कारित्वेन रूपेण निबद्धस्य स्वतः सम्भविनोऽप्यर्थस्य न चारुत्वाश्रयत्वमिति तत्राप्युक्तेः प्रौढिरपेक्षितैवेति भावः । किञ्च कवि निबद्धप्रौढोक्तिरपि कविप्रौढोक्ते तिरिच्यत इत्याह-कविप्रौढोक्तिरेव चेति । ततश्चालं बहुभिः प्रपञ्चैः, प्रौढोक्तिनिर्मितत्वमात्रमर्थेऽव्यभिचरितमाश्रयणीयमिति । रसगङ्गाधरे पण्डितराजेनाऽप्युक्तं द्वितीयाननस्यारम्भे ध्वनिभेदगणनाप्रस्तावे"प्रतिभानिर्मितत्वाविशेषाञ्च, कवितदुम्भितवक्तृप्रौढोक्तिनिष्पन्नयोरर्थयोर्न पृथग्भावेन गणनोचिता, उम्भितोम्भितादेरपि भेदप्रयोजकतापत्तेः, न च तस्यापि कम्युम्भितत्वानपायात् तत्प्रयोज्यभेदान्तर्गतत्वमेवेति वाच्यम्, प्रथमोम्भितस्यापि लोकोत्तरवर्णनानिपुणत्वलक्षणकवित्वानपायात् पृथग्भेदप्रयोजकतानुपपत्तेरिति॥" अयमाशयः-यद्यपि नहि खलु कवेः कविनिबद्धस्येव रागाचाविष्टता, अतः कवि. प्रौढोत्यपेक्षया तन्निबद्धवक्तृप्रौढोक्तिरधिकं सहृदयचमत्कारमावहतीति तस्य पृथगणना कृता। किञ्च वृद्धोक्तिविषयाच्छिशूक्तिविषय इव कव्युक्तिविषयात् तन्निबद्धोक्तिविषयश्चमत्कारकारी, ततः परं च प्रणिधानप्रतीतिकतया चमत्कारस्यस्थगनान कविनिबद्ध निबद्धवक्रादेः पृथग्गणनमिति भेदत्रयस्य काव्यप्रकाशकृतोक्तस्य समर्थनं सम्भाव्यते, तथापि प्रौढोक्तिमात्रनिर्मितत्वेन व्यापकेन रूपेण तेषां संकलनान्न पृथग्गणना कृतेति सर्व सुस्थम् , तत्र स्वतः संभवित्वादिना त्रिविधस्यार्थस्योदाहरणानि यथा कविप्रौढोक्तिमात्रेण स्वीकृतेन गतार्थानीति तदुदाहरणप्रदर्शनपुरःसरमुच्यते । तत्र स्वतः संभवित्वं नाम भणितिमात्रनिष्पन्नशरीरत्वाभावत्वे सति बहिरप्यौचित्येन प्रतीयमानत्वम्, तच्च यथा-"सिहिपिच्छकण्णऊरा, जाया वाहस्स गम्विरी भमई। मुत्ताहलरहमपसाहणाण मज्झे सवत्तीणं ॥" [गा. स० श० २.७३.] शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति । मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् ॥” इति संस्कृतम् । शिखिनः-मयूरस्य, For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy