________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
सालङ्कारचूडामणौ काव्यानुशासने
अर्थशक्तिमूलं व्यङ्ग्यमाहवस्त्वलङ्कारयोस्तद्वयञ्जकत्वेऽर्थशक्तिमूलः
प्रबन्धेऽपि ॥ २४॥ वस्तुनोऽलङ्कारस्य च प्रत्येकं वस्त्वलङ्कारव्यञ्जकत्वेऽर्थशक्तिमूलः । स च पद-वाक्ययोः प्रबन्धे च । इह चार्थः स्वतः संभवी, कविप्रौढोक्तिमात्रनिष्पन्नशरीरः, कविनिबद्धवक्तप्रौढोक्तिमात्रनिष्पनशरीरो वेति भेदकथनं न न्याय्यम् , प्रौढोक्तिनिर्मितत्वमात्रेणैव साध्यसिद्धः, प्रौढोक्तिमन्तरेण स्वतः संभविनोऽप्यकिञ्चित्करत्वात्,
इत्थं शब्दशक्तिमूलस्य भेदान् प्रदार्थशक्तिमूलं व्यङ्गय लक्षयितुं प्रवृत्तं सूत्रमवतारयति-अर्थशक्तिमूलं व्यङ्ग्यमाहेति । वस्त्वलङ्कारयोरिति सूत्रं व्याख्याति-वस्तुनोऽलंकारस्य चेति-वस्तुनः-अभिधेयार्थस्य वस्तुव्याकत्वेऽलङ्कारव्यञ्जकत्वे च, तथाऽलङ्कारस्य वस्तुव्यञ्जकत्वेऽलङ्कारव्यञ्जकत्वे चेति प्रथमं चत्वारः प्रकाराः । अस्य त्रैविध्यं प्रत्येकस्येत्याह-सच पद-वाक्ययोः प्रबन्धे चेति । अत्र काव्यप्रकाशादिकृद्भिः व्यञ्जकस्यार्थस्य त्रैविध्यमित्थं प्रतिपादितम्-"अर्थशक्त्युद्भवोऽप्यर्थो व्यञ्जकः संभवी स्वतः । प्रौढोक्तिमात्रात् सिद्धो वा कवेस्तेनोम्भिन्नस्य वा ॥ वस्तु वाऽलंकृतिर्वाऽपि षड्भेदोऽसौ व्यक्ति यत् ॥ वस्त्वलंकारमथवा तेनायं द्वादशात्मकः ॥” इति [उ० ४, का० ३९-४०] तद्वृत्तिश्च-"अर्थो द्विविधः, स्वतः संभवी, इदं प्रथमकल्पितश्च, ततः स्वतः सम्भवी न केवलं भणितिमात्रनिष्पनो यावद्वहिरप्यौचित्येन सम्भाव्यमानः, कविना प्रतिभामात्रेण बहिरसन्नपि निर्मितः, कविनिबद्धेन वा वक्त्रेति द्विविधोऽपर इति त्रिविधो वस्तु वाऽलंकारो वाऽसाविति षोढा व्यञ्जकः, तस्य वस्तु वाऽलंकारो वा व्यङ्गय इति द्वादशभेदोऽर्थशक्त्युद्भवो ध्वनिः" इति । इत्थञ्च तैय॑ञ्जकस्यार्थस्य स्वतः संभवित्वादिना यो भेदः कृतः सोऽनावश्यक इत्याहइह चार्थः स्वतः संभवीत्यादिना, स्वतः संभवीत्यादेः स्वरूपमुपरि तत्कारिकावृत्तौ स्पष्टमेव । तत्खण्डनमाह-इति भेदकथनं न न्याय्यमिति-अर्थस्य यदिदं भेदत्रयमुक्तं तन युक्तमित्यर्थः । कुत इत्याह-प्रौढोक्तिनिर्मितत्व
For Private And Personal Use Only