________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, २३ ।
वाक्ये यथा'सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः। शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ ६९ ॥
इदं हि वाक्यमसंभवत्स्वार्थ सत्सादृश्यात् सुलभसमृद्धिसंभारभाजनतां लक्षयच्छ्रकृतविद्यसेवकानां प्राशस्त्यं ध्वनति ॥ २३ ॥
न्तरमेव कथं न व्यञ्जयेदिति विवेके प्रकटीकृतम् । अत्र च काव्यालङ्कारसारकारेण पर्यायोक्तालंकारप्रभवमेव सौन्दर्यमवधार्य ध्वनिस्तिरस्कृतः, तन्न निरवद्यम् , व्यङ्गयस्यात्र विच्छित्तिविशेषाधायिस्वेन गुणीभावाभावात् , इत्यलं बहुना ॥
लक्षकशब्दशक्तिगतं व्यङ्गयं वस्तु वाक्ये उदाहरति-वाक्ये यथा-सुवर्णपुष्पामिति-सुवर्णपुष्पमित्यपि काचित्कः पाठः, स च चिनोतेर्द्विकर्मकत्वेन ज्याख्येयः । त्रयः त्रय एव न चत्वार इत्यवधारणार्थ संख्यानिर्देशः, अन्यथा प्रदर्शितक्रमेणापि संख्याप्रतीतेः । त्रय इति शूरश्चेत्यादिपदेषु च विवक्षितेन पुंस्त्वेनैव पुरुषा इत्यर्थस्य प्रतीतौ 'पुरुषाः' इति तेषामेव पुरुषत्व [पौरुषवत्त्व]प्रत्ययार्थम् , अन्ये त्वकार्यकरा इति भावः, त एव, सुवर्ण न तु ताम्रादि, पुष्पाणि-तरूणां पुष्पवत् प्रतिदिनं ग्राह्याणि, न तु दीनारवत् सकृत् ग्राह्याणि यस्यास्ताम् , पृथिवीं सम्पूर्ण भूमण्डलमेव, न त्वेकं नगरादिमात्रं, चिन्वन्ति उच्चिन्वन्ति, प्रत्यहं गृहीतसारां कुर्वते । के ते ? इत्याह-शूरः पराक्रमेण दुर्घटकार्यकारी, कृता-अभ्यासादिना परं धाराधिरोहं नीता, विद्या-सर्वतत्त्वावबोधहेतुभूतं ज्ञानं येन, यश्च सेवितुं प्रभुमनुरञ्जयितुं, जानाति, सेवकः सेवाज्ञ इत्यनुक्त्वा यश्चेत्यादिरूपेण कथनमज्ञानत्वालौकिकत्वमनौचित्यावगणनादि च ध्वनयितुम् । शूरकृतविद्यवत् सेवाज्ञस्य निर्गुणस्यापि लाभप्राप्तिरिति त्रयश्चकाराः ॥ अत्र किं व्यङ्गयमित्याह-इदं हि वाक्यमिति-अयमाशयः-इह पृथिव्याः सुवर्णपुष्पस्य तञ्चनयस्य चाप्रसिद्धेः 'सुवर्णपुष्पाम् , चिन्वन्ति' इत्यभयोर्वाच्यार्थबाधे विपुलधनानायासोपार्जनयोलक्षणायां तेषां प्रकर्षः प्राधान्येन व्यज्यते, तन्त्र लक्षणायां च सत्सादृश्यं निमित्तम् । तथा च शूर-सूरि-सेवकाः सर्वत्र सुलभसमृद्धिसम्भारभाज इति ध्वनिः फलति । तथा चात्र पदद्वयस्य ज्यञ्जकत्वेन वाक्यस्य व्यञ्जकत्वमिति ॥ २३ ॥
For Private And Personal Use Only