Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४
सालङ्कारचूडामणौ काव्यानुशासने अत्र वाक्यार्थेन वस्तुमात्ररूपेणाभिलषणीयजनकृतमेव भावानां हृद्यत्वं न स्वत इत्येतद्वस्तु व्यज्यते । वस्तुनोऽलङ्कारव्यञ्जकत्वं पदे यथा
“धीराण रमइ घुसिणारुणम्मि न तहा पियाथणुच्छंगे। दिट्ठी रिउगयकुंभत्थलम्मि जह बहलासंदूरे" ॥ ७२ ॥
अत्र धीराणामिति पदार्थो वस्तुमात्ररूपः कुचयोः कुम्भस्थलस्य चोपमालङ्कारं ध्वनति । अथ अथवा, वेल्लन्त्यः-इतस्ततः संचरन्त्यो बलाकाः-बकपतयो यत्र तादृशं, तत् पूर्वोक्तसमयसत्त्वसौभाग्यशालि, वारि ताप्या जलं, किं न इति संदेह इति भावः । अयमाशयः-तस्याः स्नानसमये यथा ताप्याः स्वरूपमाकर्षकमासीत् , यथा वा तदीयतीराणि मनोहराण्यासन् , यथा चाहं तत्र निरतिशयानन्दमनुभवनासम् , यथा वा तदीयं वारि हृदयहारि प्रतीयते स्म, तथा साम्प्रतमप्रतीयमानत्वात् तन्नेति निश्चिनोमीति । अत्र किं व्यङ्गयमित्याह-वाच्यार्थन वस्तुमात्ररूपेणेति-वाच्याशयः पूर्वमुपदर्शितो वस्तुरूप एव, तेन चाभिलषणीयजमसम्पर्ककृतमेव सर्वेषां भावानां हृद्यत्वमिति वस्तु व्यज्यत इति भावः ॥
वस्तुनोऽलङ्कारव्यञ्जकत्वं पदे पदगतमुदाहरती-"धीराण रमइ." इति । "धीराणां रमते घुसणारुणे न तथा प्रियासनोत्सङ्गे । दृष्टी रिपुगजकुम्भस्थले यथा बहलसिन्दूरे ॥” इति संस्कृतम् । अत्र ध्वन्यालोकादौ धीराणामित्यस्य स्थाने वीराणामिति पाठः, स एव च सूपयुक्तः, वीराणां दृष्टिः, घुसणैः कुकुमैः, अरुणे-शोणे, प्रियायाः स्तनोत्सङ्गे-कुचतटे, न रमते-नानन्दमनुभवति, यथा बहलम्-अत्यर्थ सिन्दूरं यत्र तादृशे रिपोर्गजानां कुम्भस्थले रमते, वीराणां हि स्वभाव एवायं यत् शृङ्गाररसादधिकं वीररसपक्षपातित्वमिति शृङ्गारविभावाधिक वीरविभाव एव तेषां हृदयं चमत्करोतीति, “कुखमम् । जागुडं दीपनं घस्त्रं सौरभं घुसृणं च तत् ।" इति निकाण्डशेषः । अत्र "प्रियास्तनतटाद्रिपुगजकुम्भस्थलस्यातिशयमनोरमत्वरूपो व्यतिरेको वाच्यः, तेन च प्रियास्तनतटरिपुगजकुम्भस्थलयोरुपमा व्यज्यत इति ध्वन्यालोककारमतं न सम्मतमिति ध्वनयन स्वमतमाह-अत्र धीराणामिति पदार्थ इति । तथा च वस्तुनाऽलङ्कारध्वनि
For Private And Personal Use Only

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340