Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
सालङ्कारचूडामणौ काव्यानुशासने
दीपकध्वनियथा-"मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा । वज्रमिन्द्रकरविप्रसृतं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ! ॥" [ ] हे वृक्ष! भवन्तम् , अनल:-दाववह्निः, पवनः-वातः, मदकल:-मदमत्तः, वारणः-हस्ती, परशुः-कुठारो वा, किञ्च इन्द्रकरात्-शक्रहस्तात् , विप्रसृतं-निःसृतं, वज्र वा मा वधिष्ट, लतया-स्वाश्रितया प्रियात्वेनोपचरितया सह, ते-तुभ्यं, स्वस्ति अस्तुकल्याणभागू भवेति पद्यार्थः । वधिष्टेति क्रियया सह सर्वेषां सम्बन्धात् "प्रकृताप्रकृतानां धमक्ये दीपकम्" ॥ [का० शा० अ० ६, सू० ८] इति लक्षित दीपकमलङ्कारो गोप्यमान एव प्रतीयते, तेनात्यन्तस्नेहास्पदत्वप्रतिपत्त्या चारुत्वनिष्पत्तिः॥ ___ अप्रस्तुतप्रशंसाध्वनिर्यथा-"ढुंढुल्लंतो मरिहिसि कंटअकलिआई केअइवणाई । मालइकुसुमसरिच्छं भमर! भमंतो न पाविहसि ॥" [ ] "भ्राम्यन् मरिष्यसि कण्टककलितानि केतकीवनानि । मालतीकुसुमसदृशं भ्रमर ! भ्राम्यन् न प्राप्यसि ॥” इति च्छाया। प्रियतमेन साकमुद्याने भ्रमन्ती पूर्वतस्तस्यात्मनि बहुमानाभावमाकलय्य गूढरीत्या स्वस्थासमसौन्दर्यादिबोधनायान्योक्त्याह-हे भ्रमर! अधिकरसलोलुप इतस्ततस्त्वं, भ्रमसि, एवं भ्राम्यन्नेव मरिष्यसीति, किन्तु मालतीकुसुमेन सदृशमपि [कुतोऽधिकमिति ध्वनिः] अन्यत् पुष्पं न प्राप्स्यसीत्यर्थः । भृङ्गस्याभिधायां प्रस्तुतत्वमेव, न च भ्रमरेति सम्बोधनेन तस्यामन्त्रणप्रतीत्याऽप्रस्तुतत्वमेवेति वाच्यम् , वैपरीत्येन आमन्त्रणेन तस्या अतिशयं मौग्ध्यमाविष्क्रियते इति प्रस्तुतत्वमेवेत्यभिधयाऽप्रस्तुतप्रशंसा नास्त्येव, विरतायां चाभिधायां वाच्यार्थसौन्दर्यबलादप्रस्तुतप्रशंसा ध्वन्यते । ध्वनिश्चायं-स्वसौभाग्य-सौन्दर्याभिमानपूर्णा सुकुमारपरिमलमालतीकुसुमसदृशी मुग्धकुलवधूनिर्व्याजप्रेमपरतया कृतकवैदग्ध्यप्रसिद्धानि शम्मली [कुट्टिनी] कण्टकव्याप्तानि दूरामोदकेतक्यादिपुष्पान्तरवनस्थानीयानि वेश्याकुलानि, अन्यत्र वेतस्ततश्चञ्चर्यमाणं स्वप्रियतममात्मसौभाग्यगोपनपूर्वमुपालभत इति ॥ अपहुतिध्वनिर्यथा
“यत् कालागुरुपत्रभङ्गरचनावासैकसारायते,
गौराङ्गीकुचकुम्भभूरिसुभगाभोगे सुधाधामनि । विच्छेदानलदीपितोत्कवनिताचेतोधिवासोद्भवं,
सन्तापं विनिनीषुरेष विततैरङ्गै ताङ्गि! स्मरः॥"
For Private And Personal Use Only

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340