SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७८ सालङ्कारचूडामणौ काव्यानुशासने दीपकध्वनियथा-"मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा । वज्रमिन्द्रकरविप्रसृतं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ! ॥" [ ] हे वृक्ष! भवन्तम् , अनल:-दाववह्निः, पवनः-वातः, मदकल:-मदमत्तः, वारणः-हस्ती, परशुः-कुठारो वा, किञ्च इन्द्रकरात्-शक्रहस्तात् , विप्रसृतं-निःसृतं, वज्र वा मा वधिष्ट, लतया-स्वाश्रितया प्रियात्वेनोपचरितया सह, ते-तुभ्यं, स्वस्ति अस्तुकल्याणभागू भवेति पद्यार्थः । वधिष्टेति क्रियया सह सर्वेषां सम्बन्धात् "प्रकृताप्रकृतानां धमक्ये दीपकम्" ॥ [का० शा० अ० ६, सू० ८] इति लक्षित दीपकमलङ्कारो गोप्यमान एव प्रतीयते, तेनात्यन्तस्नेहास्पदत्वप्रतिपत्त्या चारुत्वनिष्पत्तिः॥ ___ अप्रस्तुतप्रशंसाध्वनिर्यथा-"ढुंढुल्लंतो मरिहिसि कंटअकलिआई केअइवणाई । मालइकुसुमसरिच्छं भमर! भमंतो न पाविहसि ॥" [ ] "भ्राम्यन् मरिष्यसि कण्टककलितानि केतकीवनानि । मालतीकुसुमसदृशं भ्रमर ! भ्राम्यन् न प्राप्यसि ॥” इति च्छाया। प्रियतमेन साकमुद्याने भ्रमन्ती पूर्वतस्तस्यात्मनि बहुमानाभावमाकलय्य गूढरीत्या स्वस्थासमसौन्दर्यादिबोधनायान्योक्त्याह-हे भ्रमर! अधिकरसलोलुप इतस्ततस्त्वं, भ्रमसि, एवं भ्राम्यन्नेव मरिष्यसीति, किन्तु मालतीकुसुमेन सदृशमपि [कुतोऽधिकमिति ध्वनिः] अन्यत् पुष्पं न प्राप्स्यसीत्यर्थः । भृङ्गस्याभिधायां प्रस्तुतत्वमेव, न च भ्रमरेति सम्बोधनेन तस्यामन्त्रणप्रतीत्याऽप्रस्तुतत्वमेवेति वाच्यम् , वैपरीत्येन आमन्त्रणेन तस्या अतिशयं मौग्ध्यमाविष्क्रियते इति प्रस्तुतत्वमेवेत्यभिधयाऽप्रस्तुतप्रशंसा नास्त्येव, विरतायां चाभिधायां वाच्यार्थसौन्दर्यबलादप्रस्तुतप्रशंसा ध्वन्यते । ध्वनिश्चायं-स्वसौभाग्य-सौन्दर्याभिमानपूर्णा सुकुमारपरिमलमालतीकुसुमसदृशी मुग्धकुलवधूनिर्व्याजप्रेमपरतया कृतकवैदग्ध्यप्रसिद्धानि शम्मली [कुट्टिनी] कण्टकव्याप्तानि दूरामोदकेतक्यादिपुष्पान्तरवनस्थानीयानि वेश्याकुलानि, अन्यत्र वेतस्ततश्चञ्चर्यमाणं स्वप्रियतममात्मसौभाग्यगोपनपूर्वमुपालभत इति ॥ अपहुतिध्वनिर्यथा “यत् कालागुरुपत्रभङ्गरचनावासैकसारायते, गौराङ्गीकुचकुम्भभूरिसुभगाभोगे सुधाधामनि । विच्छेदानलदीपितोत्कवनिताचेतोधिवासोद्भवं, सन्तापं विनिनीषुरेष विततैरङ्गै ताङ्गि! स्मरः॥" For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy