SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० २४ । २७९ पूर्वमनङ्गीकृतानुनयामनुतप्तां प्रणयिविरहोत्कण्ठितां कृतप्रसाधनादिविधेयतया वल्लभागमनप्रतीक्षापरत्वेन वासकसजां काञ्चन नायिका पूर्णचन्द्रोदयावसरे दूतीमुखेनानीतः प्रियतमः प्राह-हे नताङ्गि-मध्यक्षेण्यादवनतोत्तरकाये ! गौरामयाः कुचावेव कुम्भौ तयोर्भूरि-बहुलं सुभगे-सौभाग्यशालिनि सुन्दरे, आभोगे परिसररूपे, सुधाधामनि चन्द्रमसि, यत् कालागुरुणा-कृष्णागरुलेपेन, निर्मिता, पत्रभङ्गस्य-पत्राकारप्रसाधनस्य, रचनायाः, मावास:-स्थितिः, तया, एकः समानः सारो यस्य तद्वदाचरति, एषः, विच्छेदस्य-विरहस्य, अनलेनवह्निना, दीपितं-ज्वलितं यत् , उत्कायाः-उत्कण्ठिताया वनितायाः, चेतः-हृदयं, तत्र योऽधिवासः-निवासः, तेनोद्भवति-जायते, जातो वा यः, तादृशं सन्तापं, विततैः-प्रसारितैः अङ्गः, विनिनीषुः, विनेतुमिच्छु:, स्मरः कामदेव एवेत्यर्थः । अन्न चन्द्रमण्डलमध्यवर्तिनः कृष्णवर्णचिह्नस्य वियोगाग्निपरिचितवनिताहृदयनिवासजातदाहमलीमसच्छविमन्मथाकारतयापसवो ध्वन्यते ॥ अत्रान्येऽप्यलङ्कारा ध्वन्यन्ते-यथा ससन्देहः, यतश्चन्द्रवर्तिनः कलङ्कस्य नामापि न गृहीतम् , अपि तु गौरीस्तनाभोगस्थानीये चन्द्रमसि कालागरुपत्रभङ्गविच्छित्यास्पदत्वेन यत् सारतामुत्कृष्टतामाचरति तन्न जानीमः किमेतद्वास्त्विति संशयोक्तिरूपः ससन्देहालङ्कारो ध्वन्यते ॥ निदर्शनालङ्कारश्च यथा-'त्वदीयकुचकलशन्यस्तपत्रमङ्गरचना कुवलयदलश्यामलामन्मथोद्दीपनकारिणी तथैव चन्द्रवर्तिनीयं कान्तिरपि करोति' इतीष्टार्थसिध्यै दृष्टान्तरूपो निदर्शनालङ्कारो ध्वन्यते । तथा "सहार्थबलाद्धमस्यान्वयः" इति लक्षिता सहोक्तिरपि ध्वन्यते, यथा-'त्वदीयकुचकलशशोभा मृमाङ्कशोभा च सह मदनमुद्दीपयेते' इति । एवं त्वत्कुचसदृशश्चन्द्रश्चन्द्रसमस्त्वस्कुचाभोगः' इति रूपेणोपमालङ्कारोऽपि ध्वन्यते । एवं विचारे कृते सति कामधेनुरूपायामस्यां महाकवेर्वाचि शक्यन्तेऽन्येऽप्यलङ्कारा उत्प्रेक्षयितुम् । उक्तं च महतां प्रयासस्याधिककार्यकारिवामित्थं-"हेलापि कस्यचिदचिन्त्यफलप्रसूत्यै, कस्यापि नालमणवेऽपि फलाय यत्नः । दिग्दन्तिरोमचलनं धरणी धुनोति, खात् सम्पतन्नपि लतां चलयेन भृङ्गः ॥" [ ] इति । कस्यचित् महासत्त्वस्य हेलापि-अनायासचेष्टाऽपि, अचिन्त्यस्य-अल्पसस्वैश्चिन्तयितुमप्यशक्यस्य, फलस्य, प्रसूत्यै-सम्पादनाय भवति, तथा कस्याप्यल्पसत्त्वस्य यत्नः, अणवे-स्तोकायापि, फलाय प्रयोजनाय, न भवति । तत्रार्थान्तरन्यासेन समर्थनमाह-दिग्दतिनः-दिग्गजानां, रोम्णः-एकस्यापि केशस्य, चलनं-स्वाभाविकं स्पन्दनमपि For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy