________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८०
सालङ्कारचूडामणौ काव्यानुशासने अलङ्कारस्य वस्तुव्यञ्जकत्वं पदे यथा__ "चूयंकुरावयंसं छणपसरमहग्घमणहरसुरामोअं ।
BALAM
धरणीम् , अनन्तामचलां पृथ्वी धुनोति-कम्पयति, किन्तु खात्-आकाशात् , सम्पतन्नपि-लतोपरि कृतसमुत्पातोऽपि, भृङ्गः भ्रमरः, लता-वल्लीमपि, न चलयेत् , इत्यर्थः ॥
अथ व्यतिरेकध्वनियंथा- ''जाएज वणुहेसे खुजो चिअ पायवो सडिअवत्तो। मा माणुसम्मि लोए चाएकरसो दरिदो अ॥" [गा० स० ३.३० ], इदं पद्यं ध्वन्यालोकेऽप्युदाहृतं द्वितीयोयोते, तत्र द्वितीयचरणे 'पाअवो अघडि. अवत्तो' इति, चतुर्थचरणे च 'ताएकरसो दरिदो अ' इति पाठः, मुद्रितायां गाथासप्तशत्यां च द्वितीये चरणे 'विहुणीसहो झडियपत्तो' इति, चतुर्थं च 'ताई रसिओ दरिद्दोअ' इति पाठः, विवेककृतपाठानुसारमेव च व्याख्यायते-- "जायेय वनोद्देशे कुल्लोऽपि पादपः शटितपत्रः । मा मानुषे लोके त्यागैकरसो दरिद्रश्च ॥” इति संस्कृतम् । वनोद्देशे-वनस्यैकान्ते गहने स्थाने, [ यत्र बहुतरवृक्षसम्पत्त्या स्फुटं कोऽपि प्रेक्षतेऽपि नहि यदयं कुब्ज इति, तथा च रूपघटनादावनुपयोगीत्यपि ] शटितपत्रः विशीर्णपत्रः, शटधातो रुजाविशरणगत्यवसादनार्थत्वात् , एवं च पत्राभावात् छायाऽपि नास्ति कुतः पुष्पफलसंभावना, एवंभूतो कुब्जीभूतोऽपि जायेयेति वरं, यतः कदाचिदाङ्गारिकस्याङ्गाराथं घूकादीनां वासार्थं च ममोपयोगस्तत्रापि सम्भाव्यते, किन्तु मानुषे लोके-मर्त्य भुवने, यत्रार्थिजनः सुलभस्तत्रार्थिभिर्लोक्यमानस्य किमप्युपकर्तुमशनुवतो महद् दुःखमिति भावः, त्यागैकरसोऽतिदानशीलो दरिद्रश्च मा जनिषि । इह निर्धनस्य दानशीलस्य जन्मनिन्दा, निष्पन्नकुलपादपप्रशंसा च वाच्या, तथा च न कश्चिदलङ्कारो वाच्यः । तथाविधादपि पादपात् तादृशस्य पुंसो न्यूनतां-शोच्यतायामाधिक्यं तात्पर्येण प्रकाशयतीति व्यतिरेकालङ्कारो व्यङ्ग्यः, एवमन्येऽप्यलङ्कारा यथासंभवमुदाहार्या ध्वन्यालोकादौ वा द्रष्टव्याः ॥
अलङ्कारस्य वस्तुव्यञ्जकत्वं नामोपमादिनालंकारेण वाच्येन वस्तुव्यञ्जनमिति, तत् पदे यथा-चूयंकुरावयंसं० इति “चूताङ्कुरावतंसं क्षणप्रसरमहाघमनोहरसुरामोदम् । असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्म्या मुखम् ॥” इति
For Private And Personal Use Only