Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- प्रकाशाभिधविवृतौ अध्या० १, सू० २५।
२८७
सन्धि-भावशबलत्वान्यर्थशक्तिमूलानि व्यङ्ग्यानि । चकारः पदवाक्यप्रबन्धानुकर्षणार्थः । पृथग्योगो रसादयो व्यङ्ग्या एव भवन्ति गच्छति, तथा हि-तत्र यदा कश्चिद् व्यभिचारिभाव उद्विक्तावस्था-प्राधान्येनास्वाद्यमानतां गतो वक्ष्यमाणोदयशान्तिशबलत्वादिधर्मा चमत्कारातिशयाधायको भवति, तदा तस्य भाव इति संज्ञा भवति तत्रैव च भावध्वनिः; उक्तं च मम्मटेन-"रतिर्देवादिविषया व्यभिचारी तथाञ्जितः । भावः प्रोक्तः" [ का. प्र० २. ३५ ] इति, अत्र रतिरिति स्थायिभावमात्रोपलक्षणम् , देवादिविषयेत्यस्याप्राप्तरसावस्थोपलक्षणत्वम् , आदिशब्दान्मुनि-गुरु-नृप-पुत्रादिविषया, तथा च देवादिविषया सर्वा कान्ताविषयाऽप्यपुष्टा रतिहाँसादयश्चाप्राप्तरसावस्थाः, प्राधान्येन व्यञ्जितो व्यभिचारी च भाव इति तदर्थः प्रदीपे वर्णितः । यदुक्तमभियुक्तैरपि-"रत्यादिश्चेन्निरङ्ग स्याद् देवादिविषयोऽथवा । अन्याङ्गभावभाग वा स्यान्न तदास्थायिशब्दभाग् ॥” इति, इत्थं भावस्य स्वरूपं संक्षेपेण प्रदर्शितं, विस्तरस्तु तद्वर्णनप्रकरणे वक्ष्यते । एवं यदा विभावाभासात्-अनौचित्यप्रयोजिताद् विभावात् , रत्याभासोदयस्तदाऽनुभावोऽप्याभासस्वरूप एव भवतीति ताभ्यां विभावानुभावाभासाभ्यां जायमानश्चर्वणाभास इति कथ्यते, स एव रसाभासः, एवं भावशान्त्यादयोऽप्यने निरूपयिष्यन्ते। तथा च रसध्वनेरेवामी भावध्वनिप्रभृतयो निःष्यन्दा आस्वादे प्रयोजकमंशं विभज्यैव पृथक् पृथक् व्यवस्थाव्यन्ते, यथा-संमूञ्छितामोदे अनेकवस्तुसंभूतामोदानां सम्मदे, उपभुज्यमानेऽपि, का ये विशेषज्ञा भवन्ति ते विवेचयन्ति-यदयं सुपरिशुद्धस्यामोदोऽयं पुष्पविशेषामोद इत्यादिना शुद्धस्य रसस्य ध्वनिस्तु यत्र मुख्यतया विभावानुभावन्यभिचारिभावसंयोजनोचितस्थायि [ भाव ] प्रतिपत्तिकस्य प्रतिपत्तुः स्थाय्यशचर्वणाप्रयुक्त एवास्वादप्रकर्षः । रसभावादीनामुदाहरणानि तदीयप्रस्तावे प्रदर्शयिष्यन्ते । सूत्रे चकारः किमर्थ इत्याशङ्कायामाह चकारः पद-वाक्य-प्रबन्धानुकर्षणार्थ इति । यथा वस्त्वलङ्कारयोर्ध्वनिः पद-वाक्यप्रबन्धेषु तथा रसध्वनिरपि तेविति तेषामेतत्सूत्रेणापि सम्बन्धद्योतनार्थश्चकार इति । ननु सर्वथा ताभ्यां साम्ये तत्रैव सूत्रे रसादिरिति पदं कुतो न पठितमिति व्यर्थ पृथक सूत्रमिति चेत् ? अत्राह-पृथग्योगो रसादयो व्यङ्गया एव भवन्तीति, उपपादितं चैतत् पूर्वसूत्रव्याख्यायामादावेव । तथा च वस्त्वलङ्कारवद् रसादीनपि
For Private And Personal Use Only

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340