Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 309
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८० सालङ्कारचूडामणौ काव्यानुशासने अलङ्कारस्य वस्तुव्यञ्जकत्वं पदे यथा__ "चूयंकुरावयंसं छणपसरमहग्घमणहरसुरामोअं । BALAM धरणीम् , अनन्तामचलां पृथ्वी धुनोति-कम्पयति, किन्तु खात्-आकाशात् , सम्पतन्नपि-लतोपरि कृतसमुत्पातोऽपि, भृङ्गः भ्रमरः, लता-वल्लीमपि, न चलयेत् , इत्यर्थः ॥ अथ व्यतिरेकध्वनियंथा- ''जाएज वणुहेसे खुजो चिअ पायवो सडिअवत्तो। मा माणुसम्मि लोए चाएकरसो दरिदो अ॥" [गा० स० ३.३० ], इदं पद्यं ध्वन्यालोकेऽप्युदाहृतं द्वितीयोयोते, तत्र द्वितीयचरणे 'पाअवो अघडि. अवत्तो' इति, चतुर्थचरणे च 'ताएकरसो दरिदो अ' इति पाठः, मुद्रितायां गाथासप्तशत्यां च द्वितीये चरणे 'विहुणीसहो झडियपत्तो' इति, चतुर्थं च 'ताई रसिओ दरिद्दोअ' इति पाठः, विवेककृतपाठानुसारमेव च व्याख्यायते-- "जायेय वनोद्देशे कुल्लोऽपि पादपः शटितपत्रः । मा मानुषे लोके त्यागैकरसो दरिद्रश्च ॥” इति संस्कृतम् । वनोद्देशे-वनस्यैकान्ते गहने स्थाने, [ यत्र बहुतरवृक्षसम्पत्त्या स्फुटं कोऽपि प्रेक्षतेऽपि नहि यदयं कुब्ज इति, तथा च रूपघटनादावनुपयोगीत्यपि ] शटितपत्रः विशीर्णपत्रः, शटधातो रुजाविशरणगत्यवसादनार्थत्वात् , एवं च पत्राभावात् छायाऽपि नास्ति कुतः पुष्पफलसंभावना, एवंभूतो कुब्जीभूतोऽपि जायेयेति वरं, यतः कदाचिदाङ्गारिकस्याङ्गाराथं घूकादीनां वासार्थं च ममोपयोगस्तत्रापि सम्भाव्यते, किन्तु मानुषे लोके-मर्त्य भुवने, यत्रार्थिजनः सुलभस्तत्रार्थिभिर्लोक्यमानस्य किमप्युपकर्तुमशनुवतो महद् दुःखमिति भावः, त्यागैकरसोऽतिदानशीलो दरिद्रश्च मा जनिषि । इह निर्धनस्य दानशीलस्य जन्मनिन्दा, निष्पन्नकुलपादपप्रशंसा च वाच्या, तथा च न कश्चिदलङ्कारो वाच्यः । तथाविधादपि पादपात् तादृशस्य पुंसो न्यूनतां-शोच्यतायामाधिक्यं तात्पर्येण प्रकाशयतीति व्यतिरेकालङ्कारो व्यङ्ग्यः, एवमन्येऽप्यलङ्कारा यथासंभवमुदाहार्या ध्वन्यालोकादौ वा द्रष्टव्याः ॥ अलङ्कारस्य वस्तुव्यञ्जकत्वं नामोपमादिनालंकारेण वाच्येन वस्तुव्यञ्जनमिति, तत् पदे यथा-चूयंकुरावयंसं० इति “चूताङ्कुरावतंसं क्षणप्रसरमहाघमनोहरसुरामोदम् । असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्म्या मुखम् ॥” इति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340