Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २३ ।
पितेति सानन्दमिति चार्थोऽपि व्यञ्जकस्तथापि न शब्दशक्ति विनार्थशक्तिरुन्मीलतीति शब्दशक्तिरेव व्यक्षिका ॥ यथा वा
"मातङ्गगामिन्यः शीलवत्यश्च गौर्यो विभवरताश्च श्यामाः पद्मरागिण्यः धवलद्विजशुचिवदनामदिरामोदश्वसनाश्च प्रमदाः" ॥६॥
अत्र विरोधालङ्कारो व्यङ्गयः ॥ यथा वा"खं येऽभ्युजवलयन्ति लूनतमसो ये वा नखोद्भासिनो ये पुष्णन्ति सरोरुहश्रियमधिक्षिप्ताब्जभासश्च ये ।
कृदादिभिरस्य शब्दार्थोभयशक्तिमूलकध्वनित्वेनोल्लेखात् 'समुद्दीपितमन्मथा, सानन्दम्' इत्यनयोः शब्दयोरपरिवर्तनेऽपि तदर्थयोरपि व्यञ्जकत्वेनोभयव्यञ्जकस्वस्यौचित्याच्चैकस्य शब्दमात्रस्य कथमिह व्यञ्जकत्वमुक्तमित्याशङ्कते-यद्यपीति । उत्तरयति-तथापीति-अयमाशयः-सत्यमत्रोभयोय॑ञ्जकत्वमस्ति, किन्तु शब्दशक्ति विनाऽर्थशक्तेरुन्मीलनाभावाच्छब्दशक्तरेव प्राधान्यमिति प्राधान्येन व्यपदेशो मल्लग्रामादिवदिति बोध्यमिति ॥
उदाहरणान्तरमाह-मातङ्गेति-मातङ्गान्-श्वपचान् , गन्तुमुपरमयितुं शीलं यासां ताः, तथापि शीलवत्यः सदाचाररता इति विरोधः, मातङ्गवत्-गजवत्, गच्छन्तीति ता इति तत्परिहास; गौर्यः पार्वत्यः, विभवे-शिवविरुद्ध तद्भिजे, रखा:-आसक्ता इति विरोधः, गौर्यः गौरामयः, विभवे-ऐश्वर्य, रता इति तत्परिहारः; श्यामाः श्यामवर्णाः, अथ च पद्मवत् रागो यासां ता इति विरोधः, श्यामाः षोडशवार्षिक्यः, पद्मरागमणियुताश्चेति परिहारः, धवलद्विजानाशुद्धब्राह्मणानामिव, शुचि-पवित्रं वदनं-मुखं यासां ताः, मदिरयाऽऽमोदितं श्वसनं-निःश्वासो यासां ता इति विरोधंः, धवलैः-श्वेतैः, द्विजैः-दन्तः, शुचिशुओं, वदनं यासामिति तत्परिहारः; एवंभूताः प्रमदाः, इति हर्षचरिते तृतीयाध्याये स्थाण्वीश्वरस्य वर्णनप्रसंगे तत्रत्यस्त्रीणां वर्णनमिदम् । अन विरोधप्रतिपादकाऽपिशब्दाभावाद् विरोधालंकारस्य व्यङ्ग्यत्वमित्याह-विरोधालङ्कारो व्यङ्गय इति ॥
अलङ्कारान्तरोदाहरणमप्याह-यथा वा-खं येऽभ्युज्वलयन्तीति । ये
For Private And Personal Use Only

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340