SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० २३ । पितेति सानन्दमिति चार्थोऽपि व्यञ्जकस्तथापि न शब्दशक्ति विनार्थशक्तिरुन्मीलतीति शब्दशक्तिरेव व्यक्षिका ॥ यथा वा "मातङ्गगामिन्यः शीलवत्यश्च गौर्यो विभवरताश्च श्यामाः पद्मरागिण्यः धवलद्विजशुचिवदनामदिरामोदश्वसनाश्च प्रमदाः" ॥६॥ अत्र विरोधालङ्कारो व्यङ्गयः ॥ यथा वा"खं येऽभ्युजवलयन्ति लूनतमसो ये वा नखोद्भासिनो ये पुष्णन्ति सरोरुहश्रियमधिक्षिप्ताब्जभासश्च ये । कृदादिभिरस्य शब्दार्थोभयशक्तिमूलकध्वनित्वेनोल्लेखात् 'समुद्दीपितमन्मथा, सानन्दम्' इत्यनयोः शब्दयोरपरिवर्तनेऽपि तदर्थयोरपि व्यञ्जकत्वेनोभयव्यञ्जकस्वस्यौचित्याच्चैकस्य शब्दमात्रस्य कथमिह व्यञ्जकत्वमुक्तमित्याशङ्कते-यद्यपीति । उत्तरयति-तथापीति-अयमाशयः-सत्यमत्रोभयोय॑ञ्जकत्वमस्ति, किन्तु शब्दशक्ति विनाऽर्थशक्तेरुन्मीलनाभावाच्छब्दशक्तरेव प्राधान्यमिति प्राधान्येन व्यपदेशो मल्लग्रामादिवदिति बोध्यमिति ॥ उदाहरणान्तरमाह-मातङ्गेति-मातङ्गान्-श्वपचान् , गन्तुमुपरमयितुं शीलं यासां ताः, तथापि शीलवत्यः सदाचाररता इति विरोधः, मातङ्गवत्-गजवत्, गच्छन्तीति ता इति तत्परिहास; गौर्यः पार्वत्यः, विभवे-शिवविरुद्ध तद्भिजे, रखा:-आसक्ता इति विरोधः, गौर्यः गौरामयः, विभवे-ऐश्वर्य, रता इति तत्परिहारः; श्यामाः श्यामवर्णाः, अथ च पद्मवत् रागो यासां ता इति विरोधः, श्यामाः षोडशवार्षिक्यः, पद्मरागमणियुताश्चेति परिहारः, धवलद्विजानाशुद्धब्राह्मणानामिव, शुचि-पवित्रं वदनं-मुखं यासां ताः, मदिरयाऽऽमोदितं श्वसनं-निःश्वासो यासां ता इति विरोधंः, धवलैः-श्वेतैः, द्विजैः-दन्तः, शुचिशुओं, वदनं यासामिति तत्परिहारः; एवंभूताः प्रमदाः, इति हर्षचरिते तृतीयाध्याये स्थाण्वीश्वरस्य वर्णनप्रसंगे तत्रत्यस्त्रीणां वर्णनमिदम् । अन विरोधप्रतिपादकाऽपिशब्दाभावाद् विरोधालंकारस्य व्यङ्ग्यत्वमित्याह-विरोधालङ्कारो व्यङ्गय इति ॥ अलङ्कारान्तरोदाहरणमप्याह-यथा वा-खं येऽभ्युज्वलयन्तीति । ये For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy