________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने mummmmmmmmmmmmmmmmmmmmmmmm
वाक्ये यथा"उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः। पयोधरभरस्तस्याः कं न चक्रेऽभिलाषिणम् ॥ ६२ ॥”[ ]
अत्र वाक्यस्यासंबद्धार्थत्वं मा प्रसाङ्गीदित्यप्राकरणिकपाकरणिकयोरुपमानोपमेयभावः कल्पनीय इत्यत्रोपमालङ्कारो व्यङ्गयः॥ यथा वा"अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा । तारकातरला श्यामा सानन्दं न करोति कम्" ॥ ६३ ॥ [ ] अत्र शब्दशक्त्या रात्रियोषितोरुपमा व्यङ्गया। यद्यपि समुद्दी.
कालागुरुणा-तल्लेपेन, श्यामः, तस्याः तन्व्याः, पयोधरभरः स्तनोत्सेधः, के जनम्, अभिलाषिणं न चक्रे अपि तु सर्वमेवाभिलाषिणं चक्रे इत्यर्थः । अन कथमलङ्कारो व्यङ्गय इत्याह-वाक्यस्यासम्बद्धार्थत्वमिति, अत्र वर्षाव
नरूपप्रकरणेन मेघपक्षीयेऽर्थेऽभिधा नियम्यते, ततश्च स्तनपक्षीयोऽर्थः प्रतीयमानोऽसम्बद्धार्थों मा भूदित्यप्राकरणिक-प्राकरणिकयोमघ-स्तनयोरुपमानोपमेय. भावं व्यञ्जयतीत्युपमालक्कारो व्यङ्ग्य इति भावः ॥
उदाहरणान्तरमाह-यथा वेति । अतन्द्रचन्द्राभरणेति-अतन्द्रःमेघाद्यनावृततया स्फुरद्रूपः, चन्द्र एव आभरणं यस्याः सा, अत एव समुद्दीपितः-सम्यक् प्रबलीकृतः, मन्मथः-कामो यया सा, एवं तारकाः-नक्षत्राणि, तरलाः-अल्पा यस्यां सा, श्यामा रात्रिः, के सानन्दं न करोति, इति वाच्यपक्षे, अन्यत्र तु भतन्द्रा-सुरतावालस्यरहिता, चन्द्रः-कर्पूरम्, आभरणभूषणं यस्याः, कचिच्चन्द्रनामालङ्कारोऽपि श्रूयते, तारकायां-नेत्रमध्यस्थकृष्णकनिकायां, तरला-चञ्चला, समुद् हर्षयुता, दीपितमन्मथा समेधितकन्दर्पा, श्यामा षोडशवार्षिकी, कं सानन्दं न करोति, अपि तु सर्वमानन्दयत्येव ॥ अन किं व्यङ्ग्यमित्याह-शब्दशक्त्या रात्रियोषितोरुपमेति-शब्दशक्त्योभयोरर्थयोरवगतौ सत्यामेकस्याप्राकरणिकस्वाभावायोभयोरुपमानोपमेयभाव एव पर्यवसानमित्युपमालङ्कारो व्यङ्गय इति भावः, अत्र तारका-तरला-श्यामाशब्दाः परिवृत्त्यसहिष्णवः पर्यायान्तरोपादाने द्वितीयार्थबोधासम्भवात् । काव्यप्रकाश
For Private And Personal Use Only