________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशामिधविवृतौ अध्या० १, सू० २३ ।
२५९
www
अत्र विरुद्धावपि त्वदनुवर्तनार्थमेककार्य कुरुत इति व्यत्ययेन ध्वन्यते ॥ मुख्यशब्दशक्तिव्यङ्गयोऽलङ्कारः पदे यथा
"रुधिरविसरप्रसाधितकरवालकरालरुचिरभुजपरिधः । सटिति भ्रुकुटिविटङ्कितललाटपट्टो विभासि नृप! भीमः ॥६॥[ ]
अत्र भीषणीयस्य भीमसेन उपमानम् ॥
शनिभिन्नः, अनुदार:-उदारभिन्न इति । तथा च किमन्न व्यङ्ग्यमित्याह-अत्र विरुद्धावपीति-नमो विरुद्धार्थकत्वेन शनिविरुद्धोऽशनिरुदारविरुद्धोऽनुदारःतथा च विरुद्धयोरप्यनयोरर्थयोस्त्वदनुवर्तनाथ सह कार्यकारित्वमिति वस्तु व्यज्यते । पूर्व प्राकृतभाषयोदाहरणमिदं च संस्कृतेनेत्येवोदाहरणद्वयदानस्य तात्पर्यम् ॥
मुख्यशब्दशक्तिमूलं वस्तुध्वनि पदवाक्ययोरुदाहृत्य तन्मूलमलङ्कारध्वनिमुदाहर्तुमवतरणिकामाह-मुख्यशब्दशक्तिव्यङ्गयोऽलङ्कारः पदे यथेति । रुधिरविसरेति-भत्र काव्यप्रकाशादिपठिते पद्ये 'नृपभीम !, इत्येकं सम्बोधनरूपेण पठ्यते, अत्र च पृथक्, एतत्पाठानुसारमेव व्याख्यायते, नृप ! रुधिरस्यशोणितस्य, विसरः-प्रसारो धारेति यावत् , तेन प्रसादित:-मलतः, करवाला, तेन कराल:-भयंकरः, रुचिरः-सुन्दरश्च, भुज एव परिघः-दुर्गकपाटाऽर्गलो यस्य तादृशः, शत्रूणां कृते करालः, मित्राणां कृते रुचिरः, किञ्च शत्रुलक्ष्मीनिरोधक्षमतया भुजे परिघत्वारोपः; किञ्च झटिति त्वरितं, भ्रुकुख्या-भ्रूभङ्गेनविटङ्कितं-तरङ्गितं यत् ललाटं-भालं, तदेव पट्टः-फलको यस्य तथाभूतः, भीमः भयङ्करः, विभासि । अन्न कथमलङ्कारध्वनिरित्याह-भीषणीयस्येतिबाहुलकात् कर्तर्यनीयः, तथा च भयङ्करस्य भीमसेन उपमानम् तथा च भीमसेनवद् विभासीत्यवगतिः । एवं चोपमालङ्कारस्य व्यङ्ग्यत्वमित्यायातम् ॥
वाक्येऽलङ्कारध्वनि शब्दशक्तिमूलमाह-उन्नतः प्रोल्लसद्धार इति । उन्नतः गगनोच्छ्रितः, प्रोल्लसद्धारः प्रोल्लसन्ती धारा यस्य सः, कालागुरुमलीमसः कालागुरु-सुगन्धिकाष्ठविशेषः, तद्वत्, मलीमसः-श्यामः, तस्याः प्रावृषः, पयोधरमरः मेघाडम्बरः, कम् अभिलाषिणं न चक्रे, पक्षे उन्नतः यौवनवशोच्छूितः प्रोल्लसन्-प्रकाशमानः, हारो मुक्कामाला यत्र,
For Private And Personal Use Only