________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५८
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणी काव्यानुशासने
अत्र प्रहरचतुष्टयमप्युपभोगेन नेह निद्रां कर्तुं लभ्यते, सर्वे ह्यत्राविदग्धाः, तदुन्नतपयोधरां मामुपभोक्तुं यदि वससि तदास्स्वेति व्यज्यते । वाच्यबाधेन च व्यङ्ग्यस्य स्थितत्वात् तयोर्नोपमानोपमेयभाव इति नालङ्कारो व्यङ्ग्यः ॥ यथा च
"शनिरशनिश्च तमुचैर्निहन्ति कुप्यसि नरेन्द्र ! यस्मै त्वम् । यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारच" ॥ ६० ॥ [
J
आसन्नत्वं व्यज्यते, वीक्ष्य यदि तत्प्रतिबन्धाद् वससि तदा वस तिष्ठेत्यापाततो वक्रयभिप्रायः । पाषाणबाहुल्येन च तृणदौर्लभ्यप्रयुक्तः स्रस्तराभावः सूपपन्नैः । व्यञ्जनया तु पाषाणानां तत्त्वेनाध्यवसितानां मूर्खाणां स्थले तन्मयेऽत्र ग्रामे, सत्थरं - शास्त्रं मनाकू - ईषदपि नास्ति, तथा चाकारेङ्गितज्ञशून्येऽस्मिन् ग्रामे सति चैवंविधे मेघात्मके श्लेषमर्यादयोन्नतस्तनात्मके चोद्दीपने यद्युपभोगक्षमोऽसि तदाssस्स्व, को नामोपभोगक्षम ईदृशे समये सति चेदृशरमणीलाभे वस्तरशयनमन्यत्र गन्तुं वाईतीति व्यङ्ग्यम् । तदाह - अत्र प्रहरचतुष्टयमपीति । उन्नतपयोधरदर्शनेन हि तया स्वस्था अत्युपभोगोत्सुकत्वं व्यक्तमिति तेनैव सर्वसमयोपयोगे शयनार्थं संस्तरस्यापेक्षैव नेति भावः । न च काचिदन्यदर्शना दिकृता बाधेति सूचयितुमाह- सर्वे चात्राविदग्धा इति उपपादितं च श्लोकव्याख्यायामेतत् ततश्च किं पर्यवसन्नं व्यङ्ग्यमित्याह- तदुन्नतपयोधरामिति । अत्राप्यलंकारव्यञ्जनाभावमाह-वाच्यबाधेनेति । अत्र वाच्यार्थ प्रबाध्यैव व्यङ्ग्यार्थी लब्धजन्मा । व्यङ्ग्यार्थस्य ग्राम्यतापरिहाराय वगोपनाय च वाच्यार्थ उपात्तो न तु तत्र तात्पर्यमित्यत्यन्तभिन्नेन तेन सहोपमानोपमेयभावस्यासम्भव एव । पयोधर इव पयोधर इति प्रतीतौ च वैरस्यमेव प्रत्युत स्यादिति नालङ्कारो व्यङ्ग्य इत्येव कल्पनं युक्तमिति मत्र च 'पओहर' 'सत्थर' पदे व्यञ्जके इति पदमूलोऽयमिति केचित् । स्वमते च सम्पूर्ण वाक्यस्यैव 'उन्नतपयोधरं प्रेक्ष्य' इत्यस्य व्यञ्जकत्वम् । 'सन्थरमत्थि' इत्यस्यापि च द्वयोरपि वाक्ययोः परिवृत्य सहत्वमिति भावः । उदाहरणान्तरमाह - शनिरशनिरिति । हे नरेन्द्र ! तं शनिः ग्रहः, अशनिः वज्रं च उच्चैः अतिशयेन निहन्ति, यस्मै त्वं कुप्यसि; यत्र तु प्रसीदसि स पुरुषः, उदारः उन्मटो दाता, अनुदारश्च अनुगता दाराः त्वत्प्राप्तैश्वर्येणाप्रवासाद् यस्य तादृशश्च भातीत्यर्थः, पक्षेऽशनिः
For Private And Personal Use Only