________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २३ । २५७ .. काचित् संकेतदायिनमेवं मुख्यया वृत्या शंसतीति सदागमपदेन प्रकाश्यते, अत्रार्थयोर्वसदृश्यानोपमा ॥
वाक्ये यथा"पंथिय ! न एत्थ सत्थरमत्थि मणं पत्थरथले गामे। .. उन्नयपओहरं पेक्खिऊण जड वससि ता वससु ॥"५९ ॥
[स० श० ८७९] कस्य-रमणीयजनस्य, आनन्दनिस्यन्दं न विदधातीति पूर्ववत् , अन मुख्यतया विवक्षितोऽपि द्वितीयोऽर्थों गोपनायाप्राकरणिकीकृतो भवतीति बोध्यम् । सदागमपदेन प्राधान्येनोपपति प्रति स्तुतिय॑ज्यते । अत्र च तस्य पदस्य [सदागम इत्यस्य ] परिवृत्त्यसहस्वेन [तत्सत्व एवं व्यङ्गयार्थप्रतीतेः] शब्दशक्तिमूलव्यङ्ग्यत्वमिति तत्रापि पदस्येति च स्पष्टम् , यद्यपि भुक्ति-मुक्तिप्रभृतिपदानामपि व्यञ्जकत्वं तथापि सदागमपद्रसत्त्वे एव तेषां तत्त्वमिति तस्यैव प्राधान्यमिति । अत्र प्रकरणवोधनपुरःसरं व्यञ्जकपदं परिचाययति-काचित् संकेतदायिनमिति-उपपादितमेतत् पूर्वम् । मुख्यया वृत्त्येति-अभिधयेत्यर्थः । शंसति स्तुतिं व्यञ्जयतीत्यर्थः । अत्र मुख्ययेत्यस्य व्यञ्जनयेत्यर्थ इति उड्योतकृत् , तादृशव्याख्यानं तु नावश्यकम् , सम्भवति स्वार्थपरत्वे व्यञ्जनोपलक्षकत्वकल्पनाया अयोग्यत्वात् , तस्य स्वार्थपरत्वं तु व्याख्यातमेव । अत्रालङ्कारध्वनिः [सदागम इव सदागमः] इति केचिदाहुः, तल्लेत्याह-अर्थयोवैसाश्यादिति-वाच्य-लक्ष्यार्थयोहि नास्ति सादृश्य, येनोपमा स्यात्, किञ्च मुख्यार्थस्य व्यञ्जनयाऽऽच्छादितत्वेन व्यङ्ग्यार्थस्यैव मुख्यतया प्रतीतेरुपमाकल्पकाभावोऽपि । सहशतया प्रतिभासमानावेवार्थों प्राकरणिकतामलभमानावुपमानोपमेय भावं वजतः, इह च न तथेति भावः ॥ पदगतमभिधामूलं वस्तुध्वनिमुदाहृत्य वाक्यगतमुदाहरति-वाक्ये यथा-पंथियेति-पथिक ! नान स्रस्तर [ शास्त्र]मस्ति मनाक् प्रस्तरस्थले ग्रामे । उन्नतपयोधरं प्रेक्ष्य यदि वससि तदा वस ॥" इति च्छाया। पथिकेन प्राडारम्भे ग्रामीणवध्वाः 'सत्थरमेत्थाथि' इति सम्भवव्याजेन स्वस्तरं पृष्टायां कस्याश्चिदुक्तिरियम् । सा चेयं स्वयं दूती व्यर्थैः पदैराच्छाद्य रहस्यं कथयति-पथिक ! प्रस्तराणां-पाषाणानां स्थल-तन्मये अत्र अस्मिन् ग्रामे, न तु नगरे, मनाक अल्पमपि, त्रस्तरं कटाद्यास्तरणं, नास्ति, तच्छयनसामध्यभावेऽपि उन्नतपयोधरं उपरिनम्रीभूतमेघम्, तेन वर्षाया
को० १७
MKARANAM
For Private And Personal Use Only