SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २५६ www.kobatirth.org सालङ्कारचूडामणौ काव्यानुशासने स्वर्थाधिगतिः प्राकट्यं संवित्तिर्वा । तदेवं प्रयोजनविशिष्टस्य लक्ष्यस्य गौणी - लक्षणयोर विषयत्वात् प्रयोजने व्यञ्जनमेव व्यापारः । तत्र मुख्यशब्दशक्तिव्यङ्गयं वस्तु पदे यथा"मुक्तिभुक्तिकृदेकान्त समादेशनतत्परः । कस्य नानन्दनिस्यन्दं विदधाति सदागमः ॥” [ 2 Acharya Shri Kailassagarsuri Gyanmandir ] ज्ञानाज्जायत इति तार्किकाः प्राभाकराश्च । एवं च ज्ञातृधर्मोऽयं प्रत्यक्षादेः फलम्, प्रकटता च ज्ञेयधर्म इत्ययं भेदोऽस्तु, सर्वथा प्रत्यक्षस्य विषय - फलयोः प्रत्यक्षाद् भिन्नत्वं सिद्धम् । तथा लक्षणाजन्यज्ञानात् तत्फलस्य शैत्य- प्रावनत्वादिज्ञानस्य भिन्नत्वमवश्यं स्वीकर्त्तव्यमिति लक्षणया विषयसहितस्य फलस्य बोधो न सम्भवतीति, तदाह - तदेवमिति तत् तस्माद् एवं पूर्वोक्तयुक्तिभिर्विषय - फलयोरत्यन्तभिन्नतया समकाले ज्ञान विषयत्वासम्भावेन, प्रयोजनविशिष्टस्य शैत्य-पावनत्वादिसहितस्य लक्ष्यस्य तटादेः, गौणी- लक्षणयोरविषयत्वात् ताभ्यां प्रतिपादयितुमशक्यत्वात्, अभिधाऽविषयत्वस्य च पूर्वमेवोपादितत्वात् वृत्यन्तराविषयत्वेन प्रयोजने प्रयोजनप्रतीतौ व्यञ्जनमेव ध्वननापरपर्यायो व्यञ्जनाख्य एवं व्यापार इति ॥ एवं शब्दशक्तिमूलं व्यङ्ग्यं प्रपस्य तदुदाहरणानि दर्शयितुं प्रक्रमते तत्र मुख्य शब्दशक्तीत्यादि - मुख्य-गौणादिभेदेन शब्दस्य चातुर्विध्यं पूर्वमुपपादितम्, तत्र मुख्यः शब्दः प्रथमः, तन्निष्ठा शक्तिरेव मूलं यस्य तत् व्यङ्ग्यं, वस्तु - [ वस्वलङ्कारभेदेन व्यङ्ग्यस्य द्विविधत्वेन ] वस्तुध्वनिरिति यावत् पदे पदविषये, यथा भुक्तिमुक्तिकृदिति । जनसंकीर्णे स्थले उपनायके समागतेऽ प्रस्तुतवेदप्रशंसाव्याजेन तदागमनाधीन हर्षं व्यञ्जयन्त्याः कस्याश्चिन्न/यिकाया इयमुक्तिः । सदागमः सन्-आगमः वेदः, भुक्तिमुक्तिकृत् भुक्तिः स्वर्गादिभोगः, मुक्तिः - अपवर्गः, तत्कृत्- कर्मकाण्ड - ज्ञानकाण्डाभ्यामुभयोपाय बोधनेन तयोः सम्पादकः, एकान्तेति - एकान्तेन नियमेन समादेशने - यजेतेत्यादि विध्यादिभिः करणैर्हितोपदेशने तत्परः, कस्य विज्ञस्य, आनन्द निस्यन्दं सुखोत्पत्ति, न विद्धाति अपि तु विदधात्येव । व्यङ्ग्यपक्षे सतः - सुन्दरस्य वल्लभस्य, आगमः - आगमनम्, भुक्तिः - सुरतादिभोगः, मुक्तिः - विरहादिदुः खत्यागः, ते करोतीति तथाभूतः, एकान्तस्य - संकेतस्थानस्य, समादेशने - निर्देशने, तत्परः, " For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy