________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २३ । २५५ तत्र शब्दःस्खलदतिः, न च किञ्चित् प्रयोजनमस्ति, अथ प्रयोजनेऽपि लक्ष्ये प्रयोजनान्तरमाकामयते, तर्हि तत्रापि प्रयोजनान्तराकाङ्क्षायामनवस्था स्यात् , तथा च लाभमिच्छतो मूलक्षतिः । न च प्रयोजनसहितमेव लक्ष्यं लक्षणाया विषय इति वक्तुं शक्यम् , विषयप्रयोजनयोरस्यन्तमेदात्, प्रत्यक्षादेरपि प्रमाणस्य विषयो घटादिः, प्रयोजनं
च किं प्रयोजनान्तरं स्यात् , न च प्रयोजनं विना लक्षणासम्भवतीति भावः । तत्रापि प्रयोजनान्तरस्वीकारे तस्य व्यञ्जनया प्रतीतावभ्युपगम्यमानायामन्ते रण्डाविवाहन्यायः । अथ तदर्थमपि लक्षणास्वीकारे तत्रापि प्रयोजनान्तरापेक्षेत्यनवस्थेत्याह-अथ प्रयोजनेऽपि लक्ष्य इत्यादिना न चेयमनवस्था बीजाङ्कुरवा दोषायेति चेत् ? अत्राह-तथा च लाभमिच्छत इति अयमाशयः-बीजाकुरस्थले न मूलक्षतिः, तत्र हि न तदङरजन्येन बीजेन तदङ्करस्योत्पत्तिः, भपि तु वृक्षान्तरजन्येन बीजेनेति तत्र न मूलक्षतिः, इह च प्रयोजनं विनाऽसंभवन्त्या लक्षणया प्रयोजनं लक्ष्यते चेत् ? तत्राऽपि प्रयोजनान्तरसद्भाव विना मूलभूता लक्षणैव नोदेतुमर्हतीति मूलक्षतिः । तदुक्तम्-मूलक्षतिकरी चाहुरनवस्थां हि दूषणमिति ॥ अथ शैत्य-पावनत्वादिप्रयोजनसहित एव तटार्थो लक्षणया बोध्यते, गङ्गायास्तटे घोष इत्यतोऽधिकस्यार्थस्य प्रतीतिश्च प्रयोजनमिति चेत् ? अबाहन च प्रयोजनसहितमेवेति । कुत इत्याह-विषयप्रयोजनयोरत्यन्तभेदादिति-लक्ष्यार्थो विषयस्तटादिः, प्रयोजनं च शैत्य-पावनत्वादिः, विषयप्रयोजनयोश्च महदन्तरं दृष्टमिति तयोः साहित्यं न सम्भवति । विषय-प्रयोजनयोर्भेदं दृष्टान्तेन द्रढयति-प्रत्यक्षादेरपि प्रमाणस्येति-अक्षमिन्द्रियं प्रति यदुत्पद्यते तज्ज्ञान प्रत्यक्षम्, इन्द्रियार्थसन्निकर्षजन्यमिति यावत् , प्रत्यक्षादेरित्यत्रादिपदेनानुमानादेः परिग्रहो बोध्यः, तस्य विषयो घटादिरिति-तस्यैव प्रमेयत्वात् । प्रयोजनं फलं तु, अर्थाधिगतिः । अर्थ्यते प्रार्थ्यते यः सोऽयों घटादिस्तस्याधिगतिर्ज्ञानम् , इति सामान्यतः सकल जनसम्मतः पन्थाः, प्रकटता घटज्ञानानन्तरं ज्ञातो घट इति प्रत्ययात् तज्ज्ञानेन तस्मिन् घटे ज्ञाततोत्पद्यते, सैव प्रकटतेति भाहमीमांसकानां मतम् , सैव च प्रत्यक्षाविज्ञानस्य फलमिति तैराख्यायते, तार्किक-प्रभाकरयोर्मतमाह-संवित्तिर्वेति-घटज्ञाने सति घटमहं जानामीति प्रत्ययरूपोऽनुव्यवसायो जायते, स एव संवित्तिरित्याख्याता घट
For Private And Personal Use Only