SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४ सालङ्कारचूडामणौ काव्यानुशासने प्रयोजनप्रतिपत्तिर्व्यञ्जनव्यापारादेव, तथाहि-तत्र संकेताभावान्नाभिधा, नापि गौणी लक्षणा वा, मुख्यार्थबाधादिलक्षणाभावात् , न हि लक्ष्य मुख्य, नापि तस्य बाधा, न च किञ्चिन्निमित्तमस्ति, नापि प्रतिपत्तिः प्रतीतिः, व्यञ्जनव्यापारादेव तदर्थप्रतीतावपि न किमपि कारणान्तरमस्तीति । तदेव युक्त्योपपादयति-तथा हीत्यादिना-यथाऽभिधादिना न निर्वाहस्तत् प्रदर्यत इति भावः । तत्र द्वितीयार्थे प्रयोजनादौ च, अभिधाशक्तिः, न कुत इत्याह-संकेताभावादिति-ईश्वरसङ्केतो हि शक्तिः, सा च परम्परयाऽस्मदादिभिरुपलब्धा कोशादिप्रतिपादिता च, तत्र तादृशेऽर्थे च न स संकेतो गृहीत इति न तत्र शक्तिः, इति शक्त्या तदर्थबोधो नेति भावः । नापि गौणी लक्षणा वेति- गौणी- गुणयोगादर्थप्रत्यायिका वृत्तिः, लक्षणाशक्यसम्बन्धमूलिका वृत्तिः, तत्र, तादृशेऽर्थे नास्ति कुत इत्याह-मुख्यार्थवाधादिलक्षणाभावादिति- मुख्यार्थबाधादयो तल्लक्षणं, तास्तत्र न सन्तीति न तत्र गौणी लक्षणा वा वृत्तिर्बोधने समर्था । अयमाशयः- शक्यभिचार्थः शैत्यपावनस्वादिश्च न गङ्गापदनिष्ठगौणीवृत्तिप्रतिपायो मुख्यार्थबाध-मुख्यार्थसम्बन्धरूढिप्रयोजनान्यतरैतद्रूपहेतुत्रयाभावात् , एवमेव लक्षणाऽप्युक्तकारणादेव तदर्थबोधनेऽक्षमेति । मुख्यार्थबाधाद्यभावमुपपादयति- नहि लक्ष्यं मुख्यमितिलक्षणास्थले हि लक्ष्यार्थो भवति, स च न मुख्य इति निर्विवादमेव । अस्तु वा कञ्चित् तस्याऽपि बाधेन कार्यम् , तथापि न तत्सम्भव इत्याह नापि बाधेतिनहि तटादिरूपो लक्ष्योऽर्थो बाधितो येन शैत्यपावनत्वादिप्रतीतिर्भवेत् , लक्षणास्थले यथा गङ्गापदशक्याथै घोषाधारस्वबाध इति तटे लक्षणा तथा नात्र तटार्थवाध इति भावः । ननु तात्पर्यार्थबाध एव तत्र कारणमस्त्विति चेत् ? अत्राह-न किञ्चिनिमित्तमस्ति शक्यसम्बन्धादि हि तत्र निमित्तं तदपि नास्तीति भावः । अथ परम्परासम्बन्धोऽस्त्येवेति चेत् ? अत्राह-न च शब्दः स्खलद्गतिरिति-स्खलन्ती-प्रतिपाद्यार्थप्रतिपादनेऽसमर्था, गतिः-व्यापारो यस्य तादृशः शब्दो न, अयमाशयः-यथा गङ्गाशब्दस्तटार्थप्रतिपादनेऽसमर्थस्तटं लक्षयति तथा प्रयोजनं प्रतिपादयितुमसमर्थो नेति । अथाऽपि कथञ्चित् तस्यासामर्थ्य सम्भाव्येत तत्राप्याह-न च किश्चित् प्रयोजनमिति शैत्यपावनत्वादिप्रयोजनाय हि लक्षणा समाश्रीयते, शैत्य-पावनस्वादेर्लक्षणया प्रतीतो For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy