SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwwwwwwww प्रकाशाभिधविवृतौ अध्या० १, सू० २३ । २५३ mmmmmmmmmmm आकारो यथा "निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते। न विद्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥" [कु० सं० स. ५ श्लो. ४६] तदेवं संसर्गादिभिर्नियमितायामभिधायां यार्थान्तरे प्रतीतिः सा व्यअनव्यापारादेव । अमुख्येऽपि शब्दे मुख्यार्थबाधादिनियमिते स्थानवच्छेदे विशेषस्मृतिहेतवः।" इत्युक्ततयाऽत्र नास्ति शब्दार्थनिर्णयायेङ्गितस्योपकारः, किञ्च नायं शब्दशक्तिमूलो ध्वनिस्तथापीङ्गितस्यार्थविशेषप्रतिपादकत्वमात्रमुदाहृतमिति ध्येयम् ॥ आकारस्थार्थविशेषप्रतिपादकत्वमुदाहरतिआकारो यथा-निवेदितमिति । त्वं किमिति कठिनं तपश्चरसीति प्रच्छनरूपेण शिवेन ब्रह्मचारिरूपधारिणा पृष्टे निश्वसन्ती पार्वती दृष्ट्वा शिवः प्राहसोमणा उष्णेन निःश्वसितेन निःश्वासव्यापारेण, निवेदितं तवाभिप्रायः प्रकटितः, स्वं कमपि पतित्वेन कामयसे स च दुष्पाप इति विज्ञातमिति भावः, तथापि मे मनः संशयमेव गाहते ब्रजति, किम् ? अयमेव तपोहेतुरिति मे सन्देह इति भावः, तत्र कारणमाह-ते प्रार्थयितव्यः-प्रार्थनाविषयीकरणीयः, न विद्यते, भवत्या एव प्रार्थयितारो बहवः सम्भाव्यन्ते, न कश्चित् त्वया प्रार्थनीयः सम्भाव्यते, अथ च त्वया प्रार्थितश्चेत् ? तर्हि तस्य दुर्लभत्वं कथमित्येव सन्देहः, अन्यैः प्रार्थनीयायाः स्वतः प्रार्थिनीत्वेऽसंशयमेव प्रार्थनीयप्राप्तिरिति तदाशयः । अ निःश्वसितरूपेणाकारेणार्थस्य तन्मनोरथस्य प्रकाशनमित्युदाहरणम् ॥ ___ कारिकोक्तार्थमुदाहरणादिभिर्व्याख्याय सूत्रार्थ निगमयति-तदेवमित्यादिना। संसर्गादिभिः उक्तैः, अभिधायां शक्तिपदाख्यायां, नियमितायां मर्थान्तरवारणपुरःसरमेकत्रार्थे नियन्त्रितायां, याऽर्थान्तरेऽशक्यार्थविषयिणी प्रतीतिः सा व्यञ्जनव्यापारादेव व्यञ्जनाख्यवृत्तिसहकारादेव, एवकारेण तत्र वृत्त्यन्तरस्याभावः प्रकाशितः । अभिधास्थले [ मुख्यशब्दविषये ] व्यञ्जनाण्यापारमुरुत्वागौण-लाक्षणिकयोरपि शब्दयोwअनन्यापारादर्थान्तरप्रत्यायकत्वं प्रतिपादयति-अमुख्येऽपीत्यादिना-गौण-लाक्षणिकेऽपि शब्दे, मुख्यार्थबाधादिना मुख्यस्य-प्रवाहादेरर्थस्य बाधः, भादिपदेन मुख्यार्थेन सह सम्बन्धो ग्राह्यः, तेन नियमिते गौणलाक्षणिकार्थपरत्वेनावधारिते, प्रयोजनस्य शैत्य-पावनत्वादेः, For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy