________________
Shri Mahavir Jain Aradhana Kendra
२५२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणी काव्यानुशासने
संज्ञा यथा
" अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् । वीक्षितेन परिगृह्य पार्वती मूर्धकम्पमयमुत्तरं ददौ ॥” [ कु०सं० स. ८ श्लो. ६]
,
2
इङ्गितं यथा"कदा नौ सङ्गमो भावीत्याकीर्णे वक्तुमक्षमम् । अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥" [ 1 काव्यप्रदीपे “स्वरादय' इत्यादिपदादभिनयापदेशौ गृह्येते, अन्ये चोक्तान्तर्भूता:" इत्युक्तम्, तथाप्यपदेश-निर्देशपदयोर्भिन्नार्थतया लोके प्रयोगस्य दर्शनात् पृथगुक्तिः, भवति च सहृदयानां कश्चन भेदप्रतिभासोऽनयोरर्थयोरवश्यमेव ॥ संज्ञामुदाहरति-संज्ञा यथा - अप्यवस्तुनि कथाप्रवृत्तय इति - पार्वती, अवस्तुनि - अनभिमते विषयेऽपि कथाप्रवृत्तये - वार्त्तासञ्चालनाय, प्रश्न- पृच्छायां, तत्परम् - उद्युक्तम्, अनङ्गशासनम् - शिवं, वीक्षितेन-अवलोकनेन, परिगृह्यविज्ञाय मूर्धकम्पमयं - शिरोविधूतनरूपम्, उत्तरं ददौ, मूर्धसंज्ञया तत्पृच्छां निवारयामासेत्यर्थः । पार्वतीहृदयभावजिज्ञासार्थं शिवो ब्रह्मचारिरूपमास्थाय पार्वत्या सह तदीयतपस्यादिकारणपृच्छाप्रसङ्गेन शिवप्राप्तिर्मेऽभिलषितेति विज्ञाय शिवस्य [आत्मन एव ] अवान्छनीयत्वं बहुभिः प्रकारैः प्रतिपाद्य तदुत्तरं यथोचितमधिगत्यापि पुनः किमपि प्रष्टुमुत्सुक इवायमनभिलषितं प्रस्तोष्यतीति तदीयमुखादिचेष्टामवलोक्यैव विज्ञाय शिरोविधूननेन तं निवारितवती पार्वतीत्यभिप्रायः । अत्र संज्ञायाः शिरोविधूननस्य निषेधार्थप्रत्यायकत्वमिति । काव्यप्रकाश-प्रदीपकारादीनां मते चेयमभिनयान्तर्गतैवेति न पृथुगुदाहृता तैः । इङ्गितेनार्थविशेषावबोधो यथा-कदा नौ सङ्गम इति - प्रच्छनकामुकयोर्वर्णनमिदम् । अबला 'कदा नौ सङ्गमो भावी । इति जनाकीर्णे वक्तुमक्षमं कान्तमवगत्य, लीलापद्मं न्यमीलयत्, अनोभयोः सङ्गमसमयजिज्ञासायाः समानत्वेऽपि जनाकीर्णतया कान्तं वक्तुं - प्रतिपादयितुमसमर्थम्, एतेन तस्य गुरुजनसमक्षेऽनौत्यमनतिचातुर्यं च ध्वनितम्, अवगत्य स्वयमेव संकेतकालं, परिकल्प्य तं प्रतीङ्गितेन सूचनाय हस्तस्थितकमलसङ्गोचं कृतवती, तेन च संध्यासङ्केतकाल इत्यवगतं तदीयकान्तेन । यद्यपि कारिकायां- " शब्दार्थ
For Private And Personal Use Only