________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २३।
अपदेशो यथा"इतः स दैत्यः प्राप्तश्रीनेत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्थ्य स्वयं च्छेत्तुमसांप्रतम् ॥"
[कु० सं० स. र. श्लो. ५५ ] निर्देशो यथा"भर्तृदारिके ! दिष्ट्या वर्धामहे, यदव कोऽपि कस्यापि तिष्ठतीति मामङ्गुलीविलासेनाख्यातवत्यः" ॥ [मा० मा० अं-१]
WW
हस्तादिचेष्टाया उदाहरणमुक्त्वा क्रमप्राप्तमपदेशमुदाहर्तुमाह-अपदेशो यथेतिअपदेशोऽभिमतनिर्देशः, स च हृदये हस्तनिक्षेपः, अर्थाकारप्रदर्शकत्वाभावान्नायमभिनयान्तर्गतः, तस्यार्थनियामकत्वं यथा- इतः स दैत्य इत्यादि- तारकासुरेणात्युपगुता देवा ब्रह्माणं शरणं ययुः, तेनोक्तमिदम्- इतः मद्रूपात् स्थानान्मरसकाशाद् वा, स दैत्यः तारकः, प्राप्तश्रीः प्राप्तैश्वर्यादिसम्पत् , इत एव मत्त एव वधं नार्हति, नायं मया स्वतो मारयितुं योग्य इति भावः । तत्रार्थान्तरन्यासेन समर्थनमाह-विषवृक्षोऽपि संवर्ध्य जलसेकादिना परिपोष्य, स्वयं आत्मनैव, छेत्तुम् , असाम्प्रतं न युज्यत इति भावः, अपिना मतान्तरेऽसाम्प्रतमित्यनेन निपातेन कर्मणोऽभिधानान विषवृक्षशब्दाद् द्वितीया, अपि तु प्रथमैव । विषवृक्षस्य सर्वथाऽपकारिणोऽपि स्वपोषितस्य छेदनमयोग्यमिति कथनेन तदन्यस्य स्वकृतस्य नाशो दूरं तिरस्कृतः, एवं च सर्वथापकारिणोऽप्यस्य स्वसंवर्धितस्य मारणायाहं नात्मनाचेष्टिष्य इति तदभिप्रायः । अत्र 'इतः' शब्दाभ्यां हृदये हस्तदानपूर्वकमात्मार्थों नियमितः, सर्वनान्न इदमो निष्पक्षस्येतःशब्दस्य नानार्थत्वं प्रसिद्धमिति तस्य वक्तविशेषार्थनियन्त्रितस्वमपदेशेनैव ॥ क्रमप्राप्तं निर्देशमुदाहरति-भर्तृदारिके इत्यादि-पुष्पवाटिकायां मालती प्रति कस्याश्चित् सख्याः माधवं वीक्ष्य तमङ्गुल्या निर्दिशन्त्या उक्तिरनूदिता । तर्जन्याकुल्या सूचनं निर्देशः । अनानिश्चितार्थकस्य किंशब्दस्य निर्देशमहिना 'भावी प्रियतमः, तव' इति चार्थविशेषोऽवगम्यते । यद्यप्यत्र 'अपदेश स्थल इवाभिमतप्रदर्शनमेवार्थविशेषनियामकम् , अत एव
For Private And Personal Use Only