________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
सालकारचूडामणा काव्यानुशासने
अभिनयो यथा
"एइहमित्तत्थणिया एद्दहमित्तेहिं अच्छिवत्तेहिं । एयावत्थं पत्ता एत्तियमित्तेहिं दियहेहिं ॥”[
]
आविपदेन गृह्यन्ते, तेऽपि अर्थविशेषप्रतीतिहेतब इति भावः । तत्र अभिनयःअवस्थानुकारः, स च चतुर्विधः "भवेदभिनयोऽवस्थानुकारः स चतुर्विधः । आङ्गिको वाचिवश्वमाहार्यः सात्विकस्तथा ॥" इति साहित्यदर्पणोक्तेः [६.३.], अङ्गक्रियाकृतः-आङ्गिकः, स च साक्षादिवाकारादिप्रदर्शिका हस्तादिक्रिया, वचसा कृतो-वाचिकः, मुकुट-केयूरादिभिर्वेषरचना-आहार्यः, स्तम्भ-स्वेदादिः साविकः, इत्येवं रूपेणाभिनयस्य चातुर्विध्यम् , इति कारिकार्थः । तत्राङ्गिक एवेहाभिनय उदाहियते-पद्दहमित्तत्थणियेति-"एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम् । एतदवस्था प्राप्ता, एतावन्मात्रैदिवसः ॥” इति च्छाया। चिरप्रवासिनि नायके नायिकावस्थां बोधयन्त्याः कस्याश्चिदुक्तिरियम्, एतावन्तावेव- एतावन्मात्रौ स्तनौ यस्याः सा, यद्यपि कैवल्यार्थबोधकस्य मात्रशब्दस्य "मात्रं काय च केवले" इत्यादि कोशः क्लीबत्वं लभ्यते, तथापि कविभिस्तस्य पुंस्त्वमपि प्रयुज्यते, यथा कालिदासः'उच्चैःस्रवा जलनिधेरिव जातमात्रः' इति पुंस्त्वं तदनुसारमेव 'एतावमात्रौ' इति स्तनविशेषणे पुंलिङ्गः प्रयुक्तः, एवम्-एतावती एव एतावन्मात्रे, अक्षिपत्रे, ताभ्यामुपलक्षिता, एषा-विवक्षितोश्चतादिपरिमिताऽवस्था यस्याः, एतावन्तः-निर्दिष्टाऽङ्गुल्यादिसंख्यापरिमिता एव, दिवसाः, तैरिति करणे तृतीया । अत्र बुद्धिस्थतत्तदर्थशक्ततया नानार्थानामेतच्छब्दानामर्थविशेषवाचकस्वमभिनयेन नियम्यते । अभिनयोऽत्र स्तनप्रदर्शने आमलक-कमलमुकुलाद्याकारकहस्तादिक्रिया, तेन च स्तनस्य पीनत्वमुकुलितत्वाद्यर्थविशेषेऽभिधा नियम्यते, अक्षिप्रदर्शने च पद्मपत्राकारः, अवस्थाप्रदर्शने उन्चता-कृशताबभिनयः, दिवसप्रदर्शनेऽङ्गुल्यादिनिर्देशश्चार्थविशेषनियामक इति । इत्थमाङ्गिकाभिनयरूपाया
For Private And Personal Use Only