________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २३ ।
२४९
तु स्वराद् भवत्यर्थविशेषे प्रतीतिः । आदिग्रहणादभिनया-ऽपदेश-निर्देश-संशे-गिताकारा गृह्यन्ते । स्वरस्याभिधानियामकत्वं नास्त्येवेति व्यर्थ बाहुल्येनेति विशेषणमिति, मैवम्'सुधाकरसुहृद्धवं दृष्टिः पङ्कजवैरिणी' इत्यादाविन्द्रशत्रुरिति न्यायेन [स्वरेण] अभिधानियमनस्य काव्येऽपि दुरित्वात्" । इति, अत्र 'दृष्टे प्रसीद' इत्यादौ किमिदं सम्बोधनमुत सप्तम्यन्तं दृष्टपदमिति निर्णयाय स्वरोऽपेक्ष्यते, काकुस्थले च स्वरादर्थविशेषप्रतीति दृश्यत इति स्वरस्य काव्येऽपि विशेषार्थप्रतीतिकरत्वमिति मत्वा यद् ‘बाहुल्येन' इति विशेषणं दत्तं तन्नावश्यकम् , 'दृष्टे प्रसीद'-इत्यादौ न स्वरेणार्थप्रतीतिरपि तु सम्बोधनमिदं सप्तम्यन्तं वेत्येव निर्णीयत इति तेन निर्णयेन विशेषार्थस्य प्रतीतिरिति स्वरस्य तत्र न साक्षात् प्रयोजकत्वम् , काकुस्थलेऽपि न नानार्थस्यैकार्थवाचकत्वं नियम्यतेऽपि तु विशिष्ट एवापदार्थों व्यङ्ग्य इति तत्रापि न स्वरस्याभिधानियामकत्वमिति बाहुल्येनेति विशेषणं व्यर्थमिति शङ्काग्रन्थार्थः । 'सुधाकरसुहृद् वक्र दृष्टिः पङ्कजवैरिणी'त्यत्र सुधाकरस्य सुहृदिति षष्ठीसमासबोधनायान्तोदात्तप्रयोगे उपमालङ्कारः, सुधाकरः सुहृत् यस्येति बहुबीह्यभिप्रायेण पूर्वपदप्रकृतिस्वरप्रयोगे तु प्रतीपालंकारः, एवं पङ्कजवैरिणीत्यत्रापि, इति काव्येऽपि स्वरेणार्थविशेषप्रतीतेः सत्त्वात् बाहुल्येनेति विशेषणमावश्यकमिति समाधानग्रन्थाशयः । नागोजीभट्टेनोक्ष्योते चावात्मनोऽनभिमतत्वं प्रतिपादितम् , तथा हि "वस्तुत इदं चिन्त्यमेव, अभियुक्तैः क्वापि तथाऽकथनात् । अत एव प्रकाश-इन्द्रशत्रुरित्यादौ वेद एव, न काव्ये स्वरोऽर्थविशेषप्रतीतिकदित्येव बहुषु पुस्तकेषु पाठः । बाहुल्येनेति पाटेऽपि वेद एव बाहुल्येन सोऽर्थविशेषप्रतीतिकृन तु लोके क्वचिदपीति व्याख्येयम् इत्युक्तम् । अयमाशयःकाव्ये उदात्तादिस्वरकृतार्थभेदे समासविषये श्लेषभङ्ग एव स्यादिति लोके [काव्ये ] ऐकश्रुत्येनैव प्रायः प्रयोग इत्याश्रयणीयम् , [ ऐकश्रुत्यं स्वरविशेषरहितत्वं स्वरसर्वनाम्ना वा निर्देशः], अर्थविशेषप्रतीतिस्तु प्रकरणादिनोग्नेयेति बाहुल्येनेति विशेषणमनावश्यकम् , उपलभ्यते च तादृशविशेषणरहित एव काव्यप्रकाशीयपाठो बाहुल्येन, सति च बाहुल्यविशेषणविशिष्टपाठे तस्य पूर्वोक्तरीत्यैव व्याख्यानमुचितमिति, किमधिकं बाहुल्येन ॥
स्वरादय इति कारिकायामादिपदमुपातं, तेन किमनुक्तं संग्राह्यमित्याहआदिग्रहणादिति-अभिनयः, अपदेशः, निर्देशः, संज्ञा, इङ्गितम् , आकारश्चैते
For Private And Personal Use Only