________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८
सालङ्कारचूडामणौ काव्यानुशासने स्वरात् त्वर्थविशेषप्रतीतिः काव्यमार्गेऽनुपयोगिनीति नोदाहियते। "मश्नामि कौरवशतं समरे न कोपात् ?"[ ] इति काकुरूपात् प्रकृतिस्वरत्वेन तस्य शब्दस्य पूर्वपदान्तोदात्तत्वम् , यदि चेन्द्रस्य शत्रुरिति षष्ठीतत्पुरुषः प्रयुज्यते तर्हि इन्द्रस्यायं शातयितेत्यर्थः, समासस्यान्तोदात्तत्वेनास्य शब्दस्यान्तोदात्तता भवति, तथा चान्तोदात्तप्रयोगस्तत्रापेक्षितः, तादृशोधारणमकृत्वा मध्योदात्तः प्रयुक्त इतीन्द्र एव तस्य शातयिता जात इति स्वरदोषकृतो यजमानस्य वधः । एतेन च याज्ञे कर्मणि-वैदिके प्रयोगे स्वरस्यार्थविशेषप्रतीतिजनकत्वं सिद्धम्, किन्तु काव्यमार्गे स्वरादर्थविशेषप्रतीतिर्भवन्त्यप्यनुपयोगिनी, एवं सति समासगतश्लेषस्यैवास्तव्यस्तताप्रसङ्गादिति तस्येहोदाहरणं न दीयते, काव्यविषयकनियमस्यैवेहानुशिष्यमाणत्वात् । संसर्गो विप्रयोगश्चेति कारिका च सामान्येन लोकवेदोभयविषयकार्थनिर्णायकपरिगणनायां प्रवृत्तति तस्यां तत्परिगणनमप्यावश्यकमेव । उक्तं च काव्यप्रकाशेऽपि द्वितीयोल्लासेऽस्य कारिकाद्वयस्य व्याख्याप्रकरणे-'काव्यमार्गे स्वरो न गण्यते' इति । स्वरात त्वर्थविशेष इति सप्तम्यन्तपृथपदपाठे तु अर्थविषयिणी प्रतीतिरिति विषयत्वं सप्तम्यर्थोऽवगन्तव्यः । ननु काकुरूपात् स्वरादर्थविशेषस्य प्रतीतिमश्वामि कौरवशतं समरेन कोपादित्यादिवेणीसंहारस्थ [इदं पद्यं द्वि० ० ५८ सूत्रे व्याख्यातम् ] पद्यादिषु सर्वैरङ्गीकृतेति स्वरादर्थविशेषप्रतीतिः काव्यमार्गानुपयोगिनीति कथमुच्यत इति चेत् ? अत्राह-मश्नामि कौरवशतं समरे न कोपात् ? इति काकुरूंपात् तु खरादिति । अयमाशयः-वेदे स्वरत्वेन बाहुल्येन प्रयुक्तानामुदात्तादिस्वराणामेव काव्यमार्गेऽनुपयोगित्वमर्थनियमने, किञ्च मनामीत्यादौ न नानार्थाभिधानियमनं किन्त्वनभिधेयपदार्थस्यव व्यञ्जनमित्यभिधानियमनानुपयोगित्वमक्षतमेव, काव्यप्रदीपे च काव्येऽपि स्वरेणार्थविशेषनियममभिलक्ष्य काव्ये न स्वरो विशेषप्रतीतिकृत्' इति वृत्तिग्रन्थव्याख्यायां बाहुल्येनेति पदं योजितम् । तथा हि- तनत्यः प्रदीपग्रन्थः-'स्वरस्तुदात्तादिउँदे बाहुल्येन तेनार्थप्रतीतिर्दृश्यते, यथेन्द्रशत्रुर्वधस्वेति + + + काव्ये तु नैवं बाहुल्यम् । मनु 'गे प्रसीद' इत्यादौ स्वरेण सम्बोधनं प्रकाश्यते, तेन चार्थविशेषेऽभिधा नियम्यो, न तु साक्षात् स्वरेणैव, काकुस्थले तु न नानार्थाभिधानियमनं किन्त्वपदार्थस्यैव व्यञ्जनम्, यद्वा स्वरशब्देनोदात्तादित्रयं विवक्षितम् , मतः काव्ये
For Private And Personal Use Only