________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू०२३।
२४७
"चित्रभानुर्विभात्यह्नि"[ ] इति कालविशेषाद्वौ ।
"मित्रं हन्ति तरां तमःपरिकरं धन्ये दृशौ मादृशाम्"[ ] इति व्यक्तिविशेषात् सुहृदि च प्रतीतिः।
श्वरपदस्य राजरूपार्थनियमने निमित्तम् । कालस्याभिधानियामकत्वमाह-चित्रभानुर्विभात्यहि इति-चित्रा भानवो यस्येति योगार्थेन चित्रभानुपदस्य सूर्यवह्निरूपानेकार्थवाचकत्वेन 'अति' इति कालविशेषोपादानेन तत्र [दिवसे] वर्भानस्य मन्दतया चित्रभानुशब्दस्य सूर्यार्थत्वनिश्चयः, तस्यैव दिवसेऽधिकभासनात् । व्यक्तेरभिघानियामकत्वमाह-मित्रं हन्तितरामिति । व्यक्तिः पुं-स्त्री-क्लीबलिङ्गानि, अत्र च मित्रशब्दोऽनेकार्थः, सूर्ये सुहृदि च तस्य प्रयोगात्, तत्र यद्यपि तमःपरिकरहननस्य सूर्ये एव प्रसिद्धिस्तथापि मित्रमिति क्लीनिर्देशन सुहृवाचकत्वमेव तस्य निश्चीयते, भवति च सुहृदप्युपदेशादिनाऽज्ञानतमःसमूहहन्ता, अत एव च मित्रदर्शनकृतं धन्यत्वं दृशोरिति । अथ क्रमप्राप्तं स्वरस्यार्थनियामकत्वमुदाहरणीय, तदनुदाहरणात् त्रुटिरिति शङ्कामपनेतुमाह-स्वरात् त्वर्थविशेषप्रतीतिरित्यादि-"दुष्टः शब्दः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वजो यजमान हिनस्ति, यथेन्द्रत्रुः स्वरतोऽपराधात्" इति व्याकरणमहाभाष्यपस्पशाह्निकस्थशिक्षावचनेन स्वरस्यार्थविशेषनिर्णायकत्वमवसीयते । उक्तश्लोकार्थश्च-"स्वरतः-स्वरकृतदोषाद्धेतोः, वर्णतः-वर्णेषु दीर्घत्व. ह्रस्वत्वादिदोषात् , दुष्टः-प्रकृतार्थवाचकत्वविशिष्टसाधुत्वहीनः, शब्दः, मिथ्याप्रयुक्तः-अर्थबोधनायैव शब्दस्य प्रयोगेण यदर्थवोधनाय प्रयुक्तस्तदर्थाबोधकत्वे तस्य मिथ्याप्रयुक्तत्वमिति तथाभूतः, तम्-वक्तुर्विवक्षितमर्थम् , न.आह-न कथयति, किश्च नार्थाबोधकत्वमात्र तत्र दूषणमपित्वनर्थसम्भावनापीत्याह-स वाग्वज्र इतिवागेव वज्ररूपा सती यजमानं, यः किल तादृशशब्दप्रयोगेणोपकर्तुमिष्यते स इह यजमानशब्दवाच्यः, प्रकृते तस्य यजमानरूपत्वात् , तं, हिनस्ति, यथा'इन्द्रशत्रुः' इति शब्दः स्वरतोऽपराधात्-स्वरदोषात् , यजमानं-वृत्रमवधीत तथैवेति । अयमाशयः-वृत्रेणेन्द्रशातनाथ यज्ञ भारब्धः, तत्र इन्द्रशत्रुर्वर्धस्वेत्याशीर्वचनं प्रयुक्तम् , तस्मिन् शब्देऽन्तोदात्ते प्रयोक्तव्ये पूर्वपदान्तोदात्तः प्रयुक्तः, अत्र च शत्रुरित्यस्य शातयितेत्यर्थः, तथा च यद्यत्र इन्द्रः शत्रुर्यस्येति बहुव्रीहिराश्रीयते तदा इन्द्रः शातयिता यस्येत्यर्थो लभ्यते, भवति च पूर्वपद
For Private And Personal Use Only