Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या ० १ सू० २३ ।
"
२६५
लक्षकशब्दशक्तिव्यङ्गयं वस्तु पदे यथा“स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना, वाताः शीकरिणः पयोद सुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति ह हा हा देवि ! धीरा भव" ॥ ६८ ॥
[
]
मिथ्यादृष्टि - तत्त्वदृष्टी बोधयित्वा मिथ्याज्ञानपराङ्मुखत्व-तत्त्वज्ञानौन्मुख्ये व्यज्येते इत्यनेकपदसापेक्षतया गौणवाक्यमूलोऽयं वस्तुध्वनिरिति ॥
>
एवं गौणशब्दशक्तिव्यङ्ग्यं पद - वाक्ययोरुदाहृत्य लक्षकशब्दशक्तिव्यङ्ग्यं क्रमप्राप्तं पदे लक्ष्यति-यथा-स्निग्धश्याम लेति-स्निग्धया-जलसम्बन्धेन सरसमसृणया, श्यामलया - द्रविडवनितो चितासितवर्णया कान्त्या चाकचिक्येन । लिप्तम्- भाच्छुरितमाच्छादितं वा, वियत्-नभो यैस्ते, तथा बेल्लन्तः- जृम्भमाणास्तथा चलन्त्यः प्रमदभरेण सविलासं स्फुरन्त्यो वा, बलाकाः - बकपतयो येषु तादृशाः, घनाः मेघाः, एतेन नभसो दुरालोकत्वं व्यक्त; दिशामपि दुःसहत्वमाह - शीकरिणः वृष्टिसम्पर्केण सूक्ष्मजलबिन्दुयुक्ताः, वाताः मन्दमन्दत्वमनेक दिगागमशालित्वं च बहुत्वेन सूच्यते; तर्हि गुहासु कचिनिलीय स्थीयतां येन मेघदर्शनतादृश वातस्पर्शनाभ्यां रक्षा स्यादत आह- पयोदानां ये सुहृदः, अथवा पयोदाः सुहृदो येषां तेषु सत्स्वेव शोभनहृदयत्वान्मयूराणाम्, कलाः अस्फुटमधुराः षड्जसंवादिन्यः, आनन्दकेकाः हर्षजनितास्तेषां शब्दविशेषाः, ताश्च सर्व जलदसमयवृत्तान्तं स्मारयन्तीति; तथा स्वयमपि दुःसहाः, एवमुद्दीपनविभावोद्बोधितविप्रलम्भो रतेः परस्पराधिष्ठानत्वेन विभावानां पूर्वोपदर्शितानां साधारण्य [ मुभयनिष्ठत्व ] मभिमन्यमान इतः प्रभृति प्रियां हृदय एव निधाय स्वात्मवृत्तान्तमाह- कामं सन्त्विति एते यथा सन्ति ततोऽप्यधिकेन रूपेण भवन्तु, नो मनागपि बिभेमि, कुत इत्याह- दृढम् अत्यन्तं, कठोरं हृदयं यस्य [ रामशब्दार्थव्यङ्ग्यविशेषावकाशदायकं विशेषणमिदम् ] तादृशो रामोऽस्मि दाशरथिः सर्वदुःखसहनशीलोऽस्मि, अतः सर्व सहे मेघादिकृतमुत्पातमवधीरयामि, तु किन्तु, वैदेही कथं भविष्यति किं करि
For Private And Personal Use Only

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340