SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या ० १ सू० २३ । " २६५ लक्षकशब्दशक्तिव्यङ्गयं वस्तु पदे यथा“स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना, वाताः शीकरिणः पयोद सुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति ह हा हा देवि ! धीरा भव" ॥ ६८ ॥ [ ] मिथ्यादृष्टि - तत्त्वदृष्टी बोधयित्वा मिथ्याज्ञानपराङ्मुखत्व-तत्त्वज्ञानौन्मुख्ये व्यज्येते इत्यनेकपदसापेक्षतया गौणवाक्यमूलोऽयं वस्तुध्वनिरिति ॥ > एवं गौणशब्दशक्तिव्यङ्ग्यं पद - वाक्ययोरुदाहृत्य लक्षकशब्दशक्तिव्यङ्ग्यं क्रमप्राप्तं पदे लक्ष्यति-यथा-स्निग्धश्याम लेति-स्निग्धया-जलसम्बन्धेन सरसमसृणया, श्यामलया - द्रविडवनितो चितासितवर्णया कान्त्या चाकचिक्येन । लिप्तम्- भाच्छुरितमाच्छादितं वा, वियत्-नभो यैस्ते, तथा बेल्लन्तः- जृम्भमाणास्तथा चलन्त्यः प्रमदभरेण सविलासं स्फुरन्त्यो वा, बलाकाः - बकपतयो येषु तादृशाः, घनाः मेघाः, एतेन नभसो दुरालोकत्वं व्यक्त; दिशामपि दुःसहत्वमाह - शीकरिणः वृष्टिसम्पर्केण सूक्ष्मजलबिन्दुयुक्ताः, वाताः मन्दमन्दत्वमनेक दिगागमशालित्वं च बहुत्वेन सूच्यते; तर्हि गुहासु कचिनिलीय स्थीयतां येन मेघदर्शनतादृश वातस्पर्शनाभ्यां रक्षा स्यादत आह- पयोदानां ये सुहृदः, अथवा पयोदाः सुहृदो येषां तेषु सत्स्वेव शोभनहृदयत्वान्मयूराणाम्, कलाः अस्फुटमधुराः षड्जसंवादिन्यः, आनन्दकेकाः हर्षजनितास्तेषां शब्दविशेषाः, ताश्च सर्व जलदसमयवृत्तान्तं स्मारयन्तीति; तथा स्वयमपि दुःसहाः, एवमुद्दीपनविभावोद्बोधितविप्रलम्भो रतेः परस्पराधिष्ठानत्वेन विभावानां पूर्वोपदर्शितानां साधारण्य [ मुभयनिष्ठत्व ] मभिमन्यमान इतः प्रभृति प्रियां हृदय एव निधाय स्वात्मवृत्तान्तमाह- कामं सन्त्विति एते यथा सन्ति ततोऽप्यधिकेन रूपेण भवन्तु, नो मनागपि बिभेमि, कुत इत्याह- दृढम् अत्यन्तं, कठोरं हृदयं यस्य [ रामशब्दार्थव्यङ्ग्यविशेषावकाशदायकं विशेषणमिदम् ] तादृशो रामोऽस्मि दाशरथिः सर्वदुःखसहनशीलोऽस्मि, अतः सर्व सहे मेघादिकृतमुत्पातमवधीरयामि, तु किन्तु, वैदेही कथं भविष्यति किं करि For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy