________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने
वाक्ये यथा"या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः” ॥ ६७॥ :
[म० भा० भीष्मपर्व० गी० अ० २, श्लो. ६९] अत्र निशायां जागरितव्यमन्यत्र रात्रिवदासितव्यमिति न कश्चिदुपदेश्यं प्रत्युपदेशः सिद्ध्यतीति बाधितस्वार्थमेतद्वाक्यं संयमिनो लोकोत्तरतालक्षणेन निमित्तेन तत्त्वदृष्टाववधानं मिथ्यादृष्टौ तु पराङ्मुखत्वं ध्वनतीति ॥
. पदगतं गौणशब्दशक्तिमूलं वस्तुध्वनिमुदाहृत्य वाक्यगतं तमुदाहर्तुमाहवाक्ये यथा-"या निशा सर्वभूतानामिति । भगवद्गीताया द्वितीयाध्याये अर्जुनं प्रति श्रीकृष्ण आह-पार्थ ! सर्वभूतानां सर्वेषां ब्रह्मादिस्थावरान्तानां भूतानां पाञ्चभौतिकशरीरधारिणां, या निशा मोहजनकतया निशातुल्या मिथ्यादृष्टिः, तस्यां संयमी जितेन्द्रियो जागर्ति कथमियं हीयेतेति सावधानस्तिष्ठति, यस्यां पुनर्मिथ्यादृष्टी, भूतानि जाग्रति अवदधति अनुरज्यन्ति, सा पश्यतः तत्त्वावबोधं बिभ्रतो मुनेः मननशीलस्य निशा अनवधानविषयः, तस्यां हि नासौ प्रबुद्धः, अथवा या निशा सर्वभूतानामित्यन्न सर्वभूतानि यत्र निशावदप्रबुद्धानि तिष्ठन्ति तस्यां तत्त्वदृष्टौ, मुनिर्जागर्ति प्रबुद्धस्तिष्ठति, यस्यां मिथ्यादृष्टौ भूतानि जाग्रति सा विवेकशीलस्य तस्य मुनेः, निशा अनवधानविषय इति व्याख्येयम् । अत्र किं वस्तु व्यङ्गयमित्याह-अत्र निशायां जागरितव्यमित्यादि-अयमाशयः-आपाततः प्रतीयमानो वाच्योऽर्थः-निशायां जागरितव्यमन्यत्र [दिवा] रात्रिवद् व्यवहर्तव्यमिति न कस्मैचिदप्युपदेष्टुं योग्यमपुरुषार्थत्वात् , ततश्च वाक्यमिदं बाधितवाच्यार्थं सत् संयमिनः सांसारिकप्रवाहाभिमुखानीन्द्रियाणि स्ववशे कृतवतः लोकोत्तरतालक्षणेन साधारणजनविलक्षणेन निमित्तेन उद्देश्येन तत्त्वदृष्टौ किमिह तथ्यं ग्राह्य किञ्चाग्राह्यमिति विवेके, अवधानं मनोऽवधारणं, मिथ्यादृष्टौ अहं-ममतामूलेऽविवेके च, पराङ्मुखत्वं बहिर्मुखीभावं ध्वनतीति । इत्थं चात्र निशा-जागरणशब्दाभ्यां क्रमेण रात्रि-निद्राक्षयरूपवाच्यार्थयोरुपस्थितिमात्रे तात्पर्यानुपपत्तो जागरूकायाँ
For Private And Personal Use Only