Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २४ । २६९ कविप्रौढोक्तिरेव च कविनिबद्धवक्तृप्रौढोक्तिरिति किं प्रपञ्चेन ? ।
मात्रेणैव साध्यसिद्धेरिति-योऽर्थः प्रौढोक्तिनिर्मितः स स्वतः सम्भवी वा भवतु, कविप्रौढोक्तिमानसिद्धो वा भवतु, तमिबद्धवक्तृप्रौढोक्तिसिद्धो वा भवतु, सर्वत्र प्रौढोक्तिनिर्मितत्वमस्त्येवेति सर्वसंग्राहकमेकमेव रूपमाश्रयणीयं लाघवादिति भावः । स्वतः सम्भविन्यपि प्रौढोक्तिनिर्मितत्वस्यावश्यकत्वमित्याह-प्राढोक्तिमन्तरेणेति-अचमत्कारित्वेन रूपेण निबद्धस्य स्वतः सम्भविनोऽप्यर्थस्य न चारुत्वाश्रयत्वमिति तत्राप्युक्तेः प्रौढिरपेक्षितैवेति भावः । किञ्च कवि निबद्धप्रौढोक्तिरपि कविप्रौढोक्ते तिरिच्यत इत्याह-कविप्रौढोक्तिरेव चेति । ततश्चालं बहुभिः प्रपञ्चैः, प्रौढोक्तिनिर्मितत्वमात्रमर्थेऽव्यभिचरितमाश्रयणीयमिति । रसगङ्गाधरे पण्डितराजेनाऽप्युक्तं द्वितीयाननस्यारम्भे ध्वनिभेदगणनाप्रस्तावे"प्रतिभानिर्मितत्वाविशेषाञ्च, कवितदुम्भितवक्तृप्रौढोक्तिनिष्पन्नयोरर्थयोर्न पृथग्भावेन गणनोचिता, उम्भितोम्भितादेरपि भेदप्रयोजकतापत्तेः, न च तस्यापि कम्युम्भितत्वानपायात् तत्प्रयोज्यभेदान्तर्गतत्वमेवेति वाच्यम्, प्रथमोम्भितस्यापि लोकोत्तरवर्णनानिपुणत्वलक्षणकवित्वानपायात् पृथग्भेदप्रयोजकतानुपपत्तेरिति॥" अयमाशयः-यद्यपि नहि खलु कवेः कविनिबद्धस्येव रागाचाविष्टता, अतः कवि. प्रौढोत्यपेक्षया तन्निबद्धवक्तृप्रौढोक्तिरधिकं सहृदयचमत्कारमावहतीति तस्य पृथगणना कृता। किञ्च वृद्धोक्तिविषयाच्छिशूक्तिविषय इव कव्युक्तिविषयात् तन्निबद्धोक्तिविषयश्चमत्कारकारी, ततः परं च प्रणिधानप्रतीतिकतया चमत्कारस्यस्थगनान कविनिबद्ध निबद्धवक्रादेः पृथग्गणनमिति भेदत्रयस्य काव्यप्रकाशकृतोक्तस्य समर्थनं सम्भाव्यते, तथापि प्रौढोक्तिमात्रनिर्मितत्वेन व्यापकेन रूपेण तेषां संकलनान्न पृथग्गणना कृतेति सर्व सुस्थम् , तत्र स्वतः संभवित्वादिना त्रिविधस्यार्थस्योदाहरणानि यथा कविप्रौढोक्तिमात्रेण स्वीकृतेन गतार्थानीति तदुदाहरणप्रदर्शनपुरःसरमुच्यते । तत्र स्वतः संभवित्वं नाम भणितिमात्रनिष्पन्नशरीरत्वाभावत्वे सति बहिरप्यौचित्येन प्रतीयमानत्वम्, तच्च यथा-"सिहिपिच्छकण्णऊरा, जाया वाहस्स गम्विरी भमई। मुत्ताहलरहमपसाहणाण मज्झे सवत्तीणं ॥" [गा. स० श० २.७३.] शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति । मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् ॥” इति संस्कृतम् । शिखिनः-मयूरस्य,
For Private And Personal Use Only

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340