Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 292
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधानतो अध्या० १, सू० २३। २६३ अत्रोपसंहृतदृष्टिवृत्तिरन्धशब्दो बाधितमुख्यार्थः पदार्थप्रकाशनाशक्तत्वं नष्टदृष्टिगतं निमित्तीकृत्यादर्शे वर्तमानोऽसाधारणविच्छायित्वानुपयोगित्वादिधर्मजातमसंख्य प्रयोजनं व्यनक्ति ॥ सरसं मधुरस्वभावं विमलगुण मित्रसंगमोल्लसितम् । कमलं नष्टच्छायं कुर्वते दोषाकर ! नमस्ते ॥ इति संस्कृतम् । केनचिच्चन्द्रमुद्दिश्यान्योक्तिव्याजेनोच्यतेसरसं सुन्दरम् , अथ च रसयुक्तम्, मधुरस्वभावं विमलगुणयुतं मित्रस्य सूर्यस्य, संगमेन विकसितम् , अथ मित्राणां-सुहृदां, सङ्गमेन हर्षयुतम्-कमलं तत्त्वेनाध्यवसितं, कमपि सुजनं, नष्टच्छायं नष्टशोभमपगतलक्ष्मीक च, कुर्वते, दोषाकर! दोषा-रात्रिस्तां करोतीति तादृश ! चन्द्र ! अथ दोषगणनिधे ! दुर्जन! ते नमः । तथा च कमलप्रख्यस्य तत्तुल्यगुणतयोक्तस्य कस्यचन महापुरुषस्य श्रियं नाशितवन्तं कञ्चन, चन्द्रवत् श्रीयुतं प्रति अप्रस्तुतप्रशंसयोच्यते इति अप्रस्तुतप्रशंसालङ्कारो व्यङ्ग्यः, इत्येवं रीत्येति, पदव्यामवगतायां सर्वैरनायासेन गन्तुं शक्यत इति भावः ॥ ___ क्रमप्राप्तं गौणशब्दशक्तिमूलं वस्तुध्वनि पदविषयकमुदाहर्तुमाह-गौणशब्दशक्तीति । रविसंक्रान्तेति-रवौ संक्रांतं सौभाग्य-जनप्रियत्वं यस्य हेमन्ते रवेरेवाह्लादकारित्वेन लोकप्रियत्वात् , तुषारेण-हिमेन, आविलम्आवृतं मण्डलं यस्य तादृशश्चन्द्रमाः, निःश्वासेन-मुखमारुतेन, अन्धः-मलिनीकृतः, आदर्शो दर्पण इव, न प्रकाशते न प्रकाश जनयति शोभते वा । अत्र किं वस्तु व्यङ्ग्यमित्याह-अत्रोपसंहृतदृष्टिवृत्तिरिति-"अन्धण् दृष्ट्यपसंहारे" इति धातुनिष्पन्नोऽन्धशब्द उपहतदृष्टिशक्तिं चेतनमाह, दर्पणे च दृष्टेरभावात् तदान्ध्यमपि बाधितमिति बाधितवृत्तिरूपमुख्यार्थः, ततश्च मालिन्यविशिष्ट पदार्थप्रकाशनाशकत्वं नष्टदृष्टिमजीवगतं निमित्तीकृत्य अवलम्ब्य, आदर्श वर्तमानस्तदतिशयमसाधारणविच्छायत्वानुपयोगित्वादिकं धर्मसमूहमसंख्यमियत्तया परिच्छेत्तुमशक्यं यावद्बुद्धिबलोदयोझेयं वस्तु प्रयोजनतया व्यनक्ति प्रकाशयति । अत्रैकस्यान्धशब्दस्यैव गौणीवृत्याऽप्रकाशरूपमर्थ प्रतिपादयतो व्यञ्जकत्वमिति गौणशब्दशक्तिमूलकत्वं स्पष्टम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340