Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 289
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने mummmmmmmmmmmmmmmmmmmmmmmm वाक्ये यथा"उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः। पयोधरभरस्तस्याः कं न चक्रेऽभिलाषिणम् ॥ ६२ ॥”[ ] अत्र वाक्यस्यासंबद्धार्थत्वं मा प्रसाङ्गीदित्यप्राकरणिकपाकरणिकयोरुपमानोपमेयभावः कल्पनीय इत्यत्रोपमालङ्कारो व्यङ्गयः॥ यथा वा"अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा । तारकातरला श्यामा सानन्दं न करोति कम्" ॥ ६३ ॥ [ ] अत्र शब्दशक्त्या रात्रियोषितोरुपमा व्यङ्गया। यद्यपि समुद्दी. कालागुरुणा-तल्लेपेन, श्यामः, तस्याः तन्व्याः, पयोधरभरः स्तनोत्सेधः, के जनम्, अभिलाषिणं न चक्रे अपि तु सर्वमेवाभिलाषिणं चक्रे इत्यर्थः । अन कथमलङ्कारो व्यङ्गय इत्याह-वाक्यस्यासम्बद्धार्थत्वमिति, अत्र वर्षाव नरूपप्रकरणेन मेघपक्षीयेऽर्थेऽभिधा नियम्यते, ततश्च स्तनपक्षीयोऽर्थः प्रतीयमानोऽसम्बद्धार्थों मा भूदित्यप्राकरणिक-प्राकरणिकयोमघ-स्तनयोरुपमानोपमेय. भावं व्यञ्जयतीत्युपमालक्कारो व्यङ्ग्य इति भावः ॥ उदाहरणान्तरमाह-यथा वेति । अतन्द्रचन्द्राभरणेति-अतन्द्रःमेघाद्यनावृततया स्फुरद्रूपः, चन्द्र एव आभरणं यस्याः सा, अत एव समुद्दीपितः-सम्यक् प्रबलीकृतः, मन्मथः-कामो यया सा, एवं तारकाः-नक्षत्राणि, तरलाः-अल्पा यस्यां सा, श्यामा रात्रिः, के सानन्दं न करोति, इति वाच्यपक्षे, अन्यत्र तु भतन्द्रा-सुरतावालस्यरहिता, चन्द्रः-कर्पूरम्, आभरणभूषणं यस्याः, कचिच्चन्द्रनामालङ्कारोऽपि श्रूयते, तारकायां-नेत्रमध्यस्थकृष्णकनिकायां, तरला-चञ्चला, समुद् हर्षयुता, दीपितमन्मथा समेधितकन्दर्पा, श्यामा षोडशवार्षिकी, कं सानन्दं न करोति, अपि तु सर्वमानन्दयत्येव ॥ अन किं व्यङ्ग्यमित्याह-शब्दशक्त्या रात्रियोषितोरुपमेति-शब्दशक्त्योभयोरर्थयोरवगतौ सत्यामेकस्याप्राकरणिकस्वाभावायोभयोरुपमानोपमेयभाव एव पर्यवसानमित्युपमालङ्कारो व्यङ्गय इति भावः, अत्र तारका-तरला-श्यामाशब्दाः परिवृत्त्यसहिष्णवः पर्यायान्तरोपादाने द्वितीयार्थबोधासम्भवात् । काव्यप्रकाश For Private And Personal Use Only

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340