Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 287
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २५८ Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणी काव्यानुशासने अत्र प्रहरचतुष्टयमप्युपभोगेन नेह निद्रां कर्तुं लभ्यते, सर्वे ह्यत्राविदग्धाः, तदुन्नतपयोधरां मामुपभोक्तुं यदि वससि तदास्स्वेति व्यज्यते । वाच्यबाधेन च व्यङ्ग्यस्य स्थितत्वात् तयोर्नोपमानोपमेयभाव इति नालङ्कारो व्यङ्ग्यः ॥ यथा च "शनिरशनिश्च तमुचैर्निहन्ति कुप्यसि नरेन्द्र ! यस्मै त्वम् । यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारच" ॥ ६० ॥ [ J आसन्नत्वं व्यज्यते, वीक्ष्य यदि तत्प्रतिबन्धाद् वससि तदा वस तिष्ठेत्यापाततो वक्रयभिप्रायः । पाषाणबाहुल्येन च तृणदौर्लभ्यप्रयुक्तः स्रस्तराभावः सूपपन्नैः । व्यञ्जनया तु पाषाणानां तत्त्वेनाध्यवसितानां मूर्खाणां स्थले तन्मयेऽत्र ग्रामे, सत्थरं - शास्त्रं मनाकू - ईषदपि नास्ति, तथा चाकारेङ्गितज्ञशून्येऽस्मिन् ग्रामे सति चैवंविधे मेघात्मके श्लेषमर्यादयोन्नतस्तनात्मके चोद्दीपने यद्युपभोगक्षमोऽसि तदाssस्स्व, को नामोपभोगक्षम ईदृशे समये सति चेदृशरमणीलाभे वस्तरशयनमन्यत्र गन्तुं वाईतीति व्यङ्ग्यम् । तदाह - अत्र प्रहरचतुष्टयमपीति । उन्नतपयोधरदर्शनेन हि तया स्वस्था अत्युपभोगोत्सुकत्वं व्यक्तमिति तेनैव सर्वसमयोपयोगे शयनार्थं संस्तरस्यापेक्षैव नेति भावः । न च काचिदन्यदर्शना दिकृता बाधेति सूचयितुमाह- सर्वे चात्राविदग्धा इति उपपादितं च श्लोकव्याख्यायामेतत् ततश्च किं पर्यवसन्नं व्यङ्ग्यमित्याह- तदुन्नतपयोधरामिति । अत्राप्यलंकारव्यञ्जनाभावमाह-वाच्यबाधेनेति । अत्र वाच्यार्थ प्रबाध्यैव व्यङ्ग्यार्थी लब्धजन्मा । व्यङ्ग्यार्थस्य ग्राम्यतापरिहाराय वगोपनाय च वाच्यार्थ उपात्तो न तु तत्र तात्पर्यमित्यत्यन्तभिन्नेन तेन सहोपमानोपमेयभावस्यासम्भव एव । पयोधर इव पयोधर इति प्रतीतौ च वैरस्यमेव प्रत्युत स्यादिति नालङ्कारो व्यङ्ग्य इत्येव कल्पनं युक्तमिति मत्र च 'पओहर' 'सत्थर' पदे व्यञ्जके इति पदमूलोऽयमिति केचित् । स्वमते च सम्पूर्ण वाक्यस्यैव 'उन्नतपयोधरं प्रेक्ष्य' इत्यस्य व्यञ्जकत्वम् । 'सन्थरमत्थि' इत्यस्यापि च द्वयोरपि वाक्ययोः परिवृत्य सहत्वमिति भावः । उदाहरणान्तरमाह - शनिरशनिरिति । हे नरेन्द्र ! तं शनिः ग्रहः, अशनिः वज्रं च उच्चैः अतिशयेन निहन्ति, यस्मै त्वं कुप्यसि; यत्र तु प्रसीदसि स पुरुषः, उदारः उन्मटो दाता, अनुदारश्च अनुगता दाराः त्वत्प्राप्तैश्वर्येणाप्रवासाद् यस्य तादृशश्च भातीत्यर्थः, पक्षेऽशनिः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340