Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala

View full book text
Previous | Next

Page 288
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशामिधविवृतौ अध्या० १, सू० २३ । २५९ www अत्र विरुद्धावपि त्वदनुवर्तनार्थमेककार्य कुरुत इति व्यत्ययेन ध्वन्यते ॥ मुख्यशब्दशक्तिव्यङ्गयोऽलङ्कारः पदे यथा "रुधिरविसरप्रसाधितकरवालकरालरुचिरभुजपरिधः । सटिति भ्रुकुटिविटङ्कितललाटपट्टो विभासि नृप! भीमः ॥६॥[ ] अत्र भीषणीयस्य भीमसेन उपमानम् ॥ शनिभिन्नः, अनुदार:-उदारभिन्न इति । तथा च किमन्न व्यङ्ग्यमित्याह-अत्र विरुद्धावपीति-नमो विरुद्धार्थकत्वेन शनिविरुद्धोऽशनिरुदारविरुद्धोऽनुदारःतथा च विरुद्धयोरप्यनयोरर्थयोस्त्वदनुवर्तनाथ सह कार्यकारित्वमिति वस्तु व्यज्यते । पूर्व प्राकृतभाषयोदाहरणमिदं च संस्कृतेनेत्येवोदाहरणद्वयदानस्य तात्पर्यम् ॥ मुख्यशब्दशक्तिमूलं वस्तुध्वनि पदवाक्ययोरुदाहृत्य तन्मूलमलङ्कारध्वनिमुदाहर्तुमवतरणिकामाह-मुख्यशब्दशक्तिव्यङ्गयोऽलङ्कारः पदे यथेति । रुधिरविसरेति-भत्र काव्यप्रकाशादिपठिते पद्ये 'नृपभीम !, इत्येकं सम्बोधनरूपेण पठ्यते, अत्र च पृथक्, एतत्पाठानुसारमेव व्याख्यायते, नृप ! रुधिरस्यशोणितस्य, विसरः-प्रसारो धारेति यावत् , तेन प्रसादित:-मलतः, करवाला, तेन कराल:-भयंकरः, रुचिरः-सुन्दरश्च, भुज एव परिघः-दुर्गकपाटाऽर्गलो यस्य तादृशः, शत्रूणां कृते करालः, मित्राणां कृते रुचिरः, किञ्च शत्रुलक्ष्मीनिरोधक्षमतया भुजे परिघत्वारोपः; किञ्च झटिति त्वरितं, भ्रुकुख्या-भ्रूभङ्गेनविटङ्कितं-तरङ्गितं यत् ललाटं-भालं, तदेव पट्टः-फलको यस्य तथाभूतः, भीमः भयङ्करः, विभासि । अन्न कथमलङ्कारध्वनिरित्याह-भीषणीयस्येतिबाहुलकात् कर्तर्यनीयः, तथा च भयङ्करस्य भीमसेन उपमानम् तथा च भीमसेनवद् विभासीत्यवगतिः । एवं चोपमालङ्कारस्य व्यङ्ग्यत्वमित्यायातम् ॥ वाक्येऽलङ्कारध्वनि शब्दशक्तिमूलमाह-उन्नतः प्रोल्लसद्धार इति । उन्नतः गगनोच्छ्रितः, प्रोल्लसद्धारः प्रोल्लसन्ती धारा यस्य सः, कालागुरुमलीमसः कालागुरु-सुगन्धिकाष्ठविशेषः, तद्वत्, मलीमसः-श्यामः, तस्याः प्रावृषः, पयोधरमरः मेघाडम्बरः, कम् अभिलाषिणं न चक्रे, पक्षे उन्नतः यौवनवशोच्छूितः प्रोल्लसन्-प्रकाशमानः, हारो मुक्कामाला यत्र, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340