Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
M
२३८
सालकारचूडामणौ काव्यानुशासने अत्र विलुलितालकमुखीत्वेनानवरतक्रीडासक्तिस्तया च सततसंभोगक्षामता ध्वन्यते ॥ २१ ॥ व्यङ्गयस्य मेदानाह
व्यायः शब्दा-अर्थशक्तिमूलः ॥ २२ ॥ शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति व्यङ्गयो द्विधा, उभयशक्ति
त्वद्गृहे हस्तिदन्ता व्याघ्रकृत्तयश्च विक्रेयाः सन्तीति तद्वाणिजकेन पृष्टो व्याधवृद्ध उत्तरयति-हे वाणिजक !-वणिज्याशील ! अस्माकं [गृहे इति शेषः] हस्तिनां दन्ता व्याघ्राणां कृत्तयः-चर्माणि च तावत् कुतः [स्युः], यावत् लुलिताःउल्लुठिताः, अलकाः-चूर्णकुन्तला मुखे यस्यास्तादृशी, सुषा-पुत्रस्य वधूः, गृहे परिष्वक्कते-सविभ्रमं परिभ्रमति, इति वाच्योऽर्थः । अलकालंकृतमुखत्वेन मनोहरतमायाः स्नुषाया विभ्रमावेक्षण-सुरतविलासाक्षिप्तचेत्ताः सन्तततदुपभोगक्षामो मत्सुतो मृगयार्थ क्षणमपि बहिर्न याति, तेन कुतो मद्गृहे हस्तिदन्तादीनां सम्भव इत्यमुमर्थ स्वतः सम्भविना तादृशस्नुषासत्वादिरूपार्थेन व्यज्यमानं विलुलितालकमुखीत्येतत्पदं प्रकाशयति । तदाह-विलुलितालकमुखीत्वेनेतिविलुलितालकमुखीत्वेनानवरतक्रीडासक्तिन्यअनमित्यर्थः। तया चेत्यस्य अनवरतक्रीडासत्या च, सततसंभोगक्षामता पुत्रस्येति शेषः, ध्वन्यते प्रकाश्यते । तेनापि च मृगयाविहारागमनमिति व्यङ्गयस्यार्थस्य व्यञ्जकत्वं स्पष्टमिति ॥ २१ ॥ व्यंग्यार्थसत्तां सप्रपञ्चं सोदाहरणं च प्रदर्श्य तद्भेदप्रदर्शकसूत्रमवतारयतिव्यङ्गयस्य भेदानाहेति।व्यङ्गयस्य व्यञ्जनया वृत्या प्रकाशितस्यार्थस्य, मेदान् प्रकारान् , आह-प्रतिपादयति-व्यङ्गयः शब्दाऽर्थशक्तिमूलः, इत्यनेन सूत्रेणेति । शब्दश्चार्थश्च शब्दाऽौँ तयोः शक्तिर्मूलं-व्यञ्जकं यस्येति विग्रहे शक्तिशब्दस्य द्वन्द्वान्ते श्रूयमाणतया प्रत्येकं सम्बन्धात्-शब्दशक्तिमूलः, अर्थशक्तिमूलश्चेति लभ्यते । काव्यप्रकाशादिषु शब्दार्थोभयशक्त्युद्भवोऽपि भेदः 'शब्दार्थोभयशक्तिमूलः' इति शब्देनैव प्रतिपादितः, तथा हि-तत्रत्या कारिका'शब्दा-ऽर्थोभयशक्तयुत्थास्त्रिधा स कथितो ध्वनिः" [चतुर्थोल्लासे ३८] शब्दशक्तिमूलानुरणनरूपव्यङ्गयः, अर्थशक्तिमूलानुरणनरूपव्यङ्ग्यः, उभयशक्तिमूला
For Private And Personal Use Only

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340