Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २२ ।
२३९
मूलस्तु शब्दशक्तिमूलानातिरिच्यते, शब्दस्यैव प्राधान्येन व्यञ्जकत्वात् ।
नुरणनरूपव्यङ्ग्यश्चेति त्रिविध इति च तद्वृत्तिः । तं भेदमनावश्यकं प्रकटयितुमाहद्विधेति-न तु परोक्तस्तृतीयः प्रकार इति भावः । तम्प्रकारमुक्तयोरेव मध्येऽन्त
र्भावयति-उभयशक्तिमूलस्तु शब्दशक्तिमूलानातिरिच्यत इति-योऽयमुभयशक्तिमूलस्तत्र शब्दार्थयोरुभयोरपरिवर्तनीयत्वस्य वाच्यतया शब्दशक्तिमूलान्न भिन्नं तदिति भावः। ध्वनिकारेण आनन्दवर्धनाचार्येणापि-"क्रमेण प्रतिभात्यात्मा योऽस्यानुस्वानसन्निभः । शब्दार्थशक्तिमूलत्वात् सोऽपि द्वेधा व्यवस्थितः॥" [ध्वन्या० उ० २ का० २१] इति । अस्य-विवक्षितान्यपरवाच्यस्य ध्वनेः, स क्रमव्यङ्ग्यत्वादनुरणनप्रख्यो य आत्मा सोऽपि शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति द्विप्रकार इति तद्वृत्तिं कुर्वता तृतीयो भेदो न स्वीकृतः, तस्य ग्रन्थस्य ध्वनिमात्रनिरूपणप्रधानतया च तद्विषये तन्मतादर एव युक्तः । यद्यपि व्यङ्ग्यस्य गुणीभावे गुणीभूतव्यङ्गयत्वमिति सार्वजनीनः सिद्धान्तः, तथा च यो ध्वनिकारो विवक्षितान्यपरवाच्यध्वने दगणनावसरे " शब्दार्थशक्त्या वाऽऽक्षिप्तो व्यङ्गयोऽर्थः कविना पुनः । यत्राविष्क्रियते स्वोक्त्या सान्यैवालङ्कृतिवनेः ॥ [ध्वन्या० उ. २ का० ४६] इति कारिकायाः "शब्दशक्त्या अर्थशक्त्या शब्दार्थशक्त्या वाऽऽक्षिप्तोऽपि व्यङ्गयोऽर्थः कविना पुनयंत्र स्वोक्त्या प्रकाशीक्रियते" इति वृत्तौ प्रतिपादयन् उभयशक्त्युझवध्वनेर्गुणीभावस्य "दृष्ट्या केशवगोपरागहतया किञ्चिन्न दृष्टं मया" इत्युदाहरन् व्यङ्गयस्य शब्दार्थोभयशक्त्युद्भवतामङ्गीचक्रे । उचितं चैतत्-यत्रोभयोरपरिवृत्तिसहत्वं तत्र विलक्षणतायाः सत्वेन तस्य पार्थक्येन गणयितुं शक्यत्वात् तथापि तदीयोदाहरणे "हिममुक्तचन्द्ररुचिरः सपद्मको मदयन् द्विजान् , जनितमीनकेतनः। अभवत् प्रसाधितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः ॥” [शि० व० १३,३८] इत्यत्र 'सपनकः' 'द्विजान्' जनितमीनकेतनः इत्यादिषु पदेषु उभयशक्त्या व्यञ्जकत्वसत्त्वेऽपि शब्दस्यापि व्यञ्जकत्वम् , हिममुक्तचन्द्ररुधिरः प्रमदाजनस्येत्यत्र श्लिष्टशब्दा. भावादर्थस्य व्यञ्जकत्वमिति प्रत्येक व्यञ्जकतास्वीकारेणैव निर्वाहे सम्मिलितरूपेणोभयस्य व्यञ्जकतास्वीकारे प्रयोजनाभावः, तदाह-"उभयशक्तिमूलस्तु शब्दशक्तिमूलानातिरिच्यत इति । उभयशक्त्या कृते कार्ये एकशक्तिकृत.
For Private And Personal Use Only

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340