SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० २२ । २३९ मूलस्तु शब्दशक्तिमूलानातिरिच्यते, शब्दस्यैव प्राधान्येन व्यञ्जकत्वात् । नुरणनरूपव्यङ्ग्यश्चेति त्रिविध इति च तद्वृत्तिः । तं भेदमनावश्यकं प्रकटयितुमाहद्विधेति-न तु परोक्तस्तृतीयः प्रकार इति भावः । तम्प्रकारमुक्तयोरेव मध्येऽन्त र्भावयति-उभयशक्तिमूलस्तु शब्दशक्तिमूलानातिरिच्यत इति-योऽयमुभयशक्तिमूलस्तत्र शब्दार्थयोरुभयोरपरिवर्तनीयत्वस्य वाच्यतया शब्दशक्तिमूलान्न भिन्नं तदिति भावः। ध्वनिकारेण आनन्दवर्धनाचार्येणापि-"क्रमेण प्रतिभात्यात्मा योऽस्यानुस्वानसन्निभः । शब्दार्थशक्तिमूलत्वात् सोऽपि द्वेधा व्यवस्थितः॥" [ध्वन्या० उ० २ का० २१] इति । अस्य-विवक्षितान्यपरवाच्यस्य ध्वनेः, स क्रमव्यङ्ग्यत्वादनुरणनप्रख्यो य आत्मा सोऽपि शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति द्विप्रकार इति तद्वृत्तिं कुर्वता तृतीयो भेदो न स्वीकृतः, तस्य ग्रन्थस्य ध्वनिमात्रनिरूपणप्रधानतया च तद्विषये तन्मतादर एव युक्तः । यद्यपि व्यङ्ग्यस्य गुणीभावे गुणीभूतव्यङ्गयत्वमिति सार्वजनीनः सिद्धान्तः, तथा च यो ध्वनिकारो विवक्षितान्यपरवाच्यध्वने दगणनावसरे " शब्दार्थशक्त्या वाऽऽक्षिप्तो व्यङ्गयोऽर्थः कविना पुनः । यत्राविष्क्रियते स्वोक्त्या सान्यैवालङ्कृतिवनेः ॥ [ध्वन्या० उ. २ का० ४६] इति कारिकायाः "शब्दशक्त्या अर्थशक्त्या शब्दार्थशक्त्या वाऽऽक्षिप्तोऽपि व्यङ्गयोऽर्थः कविना पुनयंत्र स्वोक्त्या प्रकाशीक्रियते" इति वृत्तौ प्रतिपादयन् उभयशक्त्युझवध्वनेर्गुणीभावस्य "दृष्ट्या केशवगोपरागहतया किञ्चिन्न दृष्टं मया" इत्युदाहरन् व्यङ्गयस्य शब्दार्थोभयशक्त्युद्भवतामङ्गीचक्रे । उचितं चैतत्-यत्रोभयोरपरिवृत्तिसहत्वं तत्र विलक्षणतायाः सत्वेन तस्य पार्थक्येन गणयितुं शक्यत्वात् तथापि तदीयोदाहरणे "हिममुक्तचन्द्ररुचिरः सपद्मको मदयन् द्विजान् , जनितमीनकेतनः। अभवत् प्रसाधितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः ॥” [शि० व० १३,३८] इत्यत्र 'सपनकः' 'द्विजान्' जनितमीनकेतनः इत्यादिषु पदेषु उभयशक्त्या व्यञ्जकत्वसत्त्वेऽपि शब्दस्यापि व्यञ्जकत्वम् , हिममुक्तचन्द्ररुधिरः प्रमदाजनस्येत्यत्र श्लिष्टशब्दा. भावादर्थस्य व्यञ्जकत्वमिति प्रत्येक व्यञ्जकतास्वीकारेणैव निर्वाहे सम्मिलितरूपेणोभयस्य व्यञ्जकतास्वीकारे प्रयोजनाभावः, तदाह-"उभयशक्तिमूलस्तु शब्दशक्तिमूलानातिरिच्यत इति । उभयशक्त्या कृते कार्ये एकशक्तिकृत. For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy