SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४० सालकारचूडामणौ काव्यानुशासने स्वमपि व्यपदेष्टुं शक्यत एवेति भावः। तदनतिरिक्तत्वे हेतुमाह-शब्दस्यैव प्राधान्येन व्यञ्जकत्वादिति-उक्तस्थलेऽर्थव्यञ्जकतायामपि शब्द एव कारणमिति तस्य प्राधान्यं स्पष्टमेवेति भावः, अत एव मल्लिनाथेन तट्टीकायां 'शब्दशक्तिमूलो ध्वनिरित्येवोक्तं न तु साहित्यदर्पणोक्त उभयशक्तिमूलो ध्वनिरिति । अयमत्र निर्गलितोऽर्थः-काव्यप्रकाशादौ "अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा । तारकातरला श्यामा सानन्दं न करोति कम् ॥" [ ] इति पद्यमुभयशक्तिमूलकध्वनेरुदाहरणत्वेनोपन्यस्तम्, तत्र-तन्द्रचन्द्र-तारकाश्यामादिशब्दानां परिवृत्त्यसहत्वम्, आभरणा-समुद्दीपितमन्मथेत्यादीनां च परिवृत्तिसहत्वमित्युभयोः शब्दा-ऽर्थयोय॑ञ्जकत्वमिति तेषामाशयः । तत्र वयं कथयामः-- प्रत्येकमुभयोरेव व्यञ्जकत्वं स्वीक्रियतामिति कृतं तृतीयभेदस्वीकारेण । वस्तुतस्तुतत्रातन्द्रादिपदानामा भपि व्यञ्जका इत्युभयोः सम्मिल्य व्यञ्जकताया भेदस्य स्वीकर्तुमावश्यकत्वमेव । अत एव पश्चाद् वृत्तिकृताऽपि तत्स्वीकृतमित्युपपादितमधस्तात् ॥ २२ ॥ हिममुक्तचन्द्रेत्याधुदाहृतश्लोकार्थश्वायम्-श्रीकृष्णस्य हास्तिनपुरप्रवेशसमये वर्णनमिदम् , हिमेन मुक्तश्चन्द्र इव रुचिर:-सुन्दरः, इति श्रीकृष्णपक्षे, हिममुक्तेन चन्द्रेण रुचिर इति वसन्तपक्षे, पद्मया सहितः पझेन वा हस्तस्थितेन सहितः श्रीकृष्णः, पद्मन-पुष्पेण सहितो वसन्तः, द्विजान्-ब्राह्मणानिति श्रीकृष्णपक्षे, पक्षिणो वसन्ते, भानन्दयन् श्रीकृष्णः, उन्मादयन् वसन्तः, जनित:-उत्पादितो मीनकेतनः-प्रद्युम्नो येन स श्रीकृष्णः, अथ च उत्पादितः-वर्धितः, मीनकेतन:कामो येन स वसन्तः, प्रसादिताः-राक्षसमारणेन प्रसन्नता नीताः, सुरा येन स श्रीकृष्णः प्रसादिता-निर्मलीकृता सुरा येन स वसन्तः, एवंभूतो माधवःश्रीकृष्णो वसन्त श्च, प्रमदाजनस्य-स्त्रीजनस्य, चिराय-बहोः समयादनन्तरम् , महोत्सवः-अत्यानन्दप्रदः अभवदिति कृष्णवसन्तयोरुपमानोपमेयभावः प्रतीयत इत्युपमालङ्कारो व्यङ्ग्यः, स च शब्दैरर्थेन चेत्युक्तमधस्तात् ॥ अतन्द्रचन्द्राभरणेत्यादिश्लोकार्थश्चायम्-अतन्द्रः-मेघाद्यनावृततया स्फुरद्रूपश्चन्द्रः, भाभरणं यस्याः सा, अत एव समुद्दीपितमन्मथा-सम्यगुद्दीपितकामा तारकाः-नक्षत्राणि तरलानि-अल्पानि यस्यां सा श्यामा-रात्रिः, विशेषणबलास तस्या ज्योत्स्नीत्वं लभ्यते । के सानन्दं न करोति? अपि तु सर्वमेव करोतीत्यर्थः । For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy